पूर्वम्: ७।१।७८
अनन्तरम्: ७।१।८०
 
सूत्रम्
वा नपुंसकस्य॥ ७।१।७९
काशिका-वृत्तिः
वा नपुंसकस्य ७।१।७९

अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस् तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि।
लघु-सिद्धान्त-कौमुदी
वा नपुंसकस्य ३६६, ७।१।७९

अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥
न्यासः
वा नपुंसकस्य। , ७।१।७९

शतुप्रत्ययमात्रं नपुंसके न वत्र्तत इत्यभ्यस्तादह्गादुसरो यः शता तदन्तस्य नपुंसकस्य विकल्पो विज्ञायत इत्याह--"अभ्यास्तादङ्गात्()" इत्यादि॥
बाल-मनोरमा
धा नपुंसकस्य ४३९, ७।१।७९

शौ "नाभ्यस्तच्छतुः" इति नित्यं नुम्निषेधे प्राप्ते--वा नपुंसकस्य। "नाभ्यस्ताच्छतुः" इति सूत्रं नञ्वर्जमनुवर्तते। नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी। "इदितो नुम्धातोः" इत्यतो नुमिति "उगिदचा"मित्यतः "सर्वनामस्थाने" इति च अनुवर्तते। तदाह--अभ्यस्तादित्यादिना। ददन्तीति। नुमि अनुस्वारपरसवर्णौ। तुददिति। "तद व्यथने" अस्माच्छतृप्रत्यये "तुदादिभ्यश्शः" इति शः शपोऽपवादः, "अतो गुणे" इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः।

तत्त्व-बोधिनी
वा नपुंसकस्य ३९६, ७।१।७९

दददिति। पुंलिङ्गेऽ[प्य]यं व्युत्पादितः। शतेति। "ऋदुशने"त्यनङ्। शतृप्रत्यय इत्यर्थः।