पूर्वम्: ७।१।७९
अनन्तरम्: ७।१।८१
 
सूत्रम्
आच्छीनद्योर्नुम्॥ ७।१।८०
काशिका-वृत्तिः
आच् छीनद्योर् नुम् ७।१।८०

अवर्णान्तादङ्गादुत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः। तुदती कुले, तुअदन्ती कुले। तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले। याती ब्राह्मणी, यान्ती ब्राह्मणी। करिष्यती कुले, करिष्यन्ती कुले। करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी। अत्र अन्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावातवर्णान्ता दङ्गादुत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवतित्यन्तादिवद्भावो ऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्येवम् आदिषु अतिप्रसङ्गः इति? अत्र समाधिं केचिदाहुः। शतुरवयवे शतृशब्दो वर्तते अवर्णान्तादङ्गादुत्तरो यः शत्रवयवः इति। अपरे पुनराहुः। आतित्यनेन शीनद्यावेव विशेष्येते। अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवति इति। तत्र येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति तकारेण एव व्यवधानम् आश्रयिष्यते। आतिति किम्? कुर्वती। सुन्वती। शीनद्योः इति किम्? तुदताम्। नुदताम्।
लघु-सिद्धान्त-कौमुदी
आच्छीनद्ययोर्नुम् ३६७, ७।१।८०

अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥
न्यासः
आच्छीनद्योर्नुम्?। , ७।१।८०

"तदुन्ती कुले" इति। "नपुंसकाच्च" ७।१।१९ इति शीभावः। "तुदती ब्राआहृणी" इति। "उगितश्च" ४।१।६ इति ङीप्(), "याती ब्राआहृणी" इति। अवादित्वाच्छपो लुक्(), "उगितश्च" ४।१।६ इति ङीप्()। "करिष्यन्ती कुले" इति। "लृटः सद्वा" ३।३।१४ इति शत्रादेशः, "ऋद्धनोः स्ये" ७।२।७० इतीट्()। "अत्रान्तरङ्गत्वात्()" इत्यादि चोद्यम्()। अकारान्तादङ्गात्? परे शतरि व्यवस्थिते ईकारे च किं नुम्? क्रियताम्()? उत्तैकादेशः? अत्रान्तरङ्गत्वात्? "अतो गुणे" ६।१।९४ पररूपमेकादेशः। अन्तरङ्गत्वं पुनस्तस्य वर्णाश्रयत्वाकत्? नुमस्तु बह्वपेक्षत्वाद्वहिरङ्गत्वम्()। स ह्रकरान्तमङ्गं शतृप्रत्ययान्तं ततश्च परतः शीनद्योर्भावमपेक्षते। "वार्णादाङ्गम्()" (व्य।प।३९) इत्यादीह नास्ति; भिन्नकालत्वात्()--शीनद्योर्हि परभावे सति नुम्? प्राप्नोति, एकादेशस्तु ततः प्रागेव। "यत्र च वार्णाङ्गयोर्युगपत्? प्राप्तिः, तत्रेयमुपतिष्ठते" इत्युक्तं प्राक्। व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति शक्यते वक्तुम्()। भेदे हि सत्यवध्यवश्रिमतोरिदमस्मादुत्तरमिदञ्च पूर्वमित्येव व्यवहारो भवति, नान्यथा। स्यादेतत्()--"अन्तादिवच्च" (६।१।८५) इत्यन्तादिवदभावेनैकादेशः पूर्वं प्रत्यन्तवद्भवति परञ्च प्रत्यादिवदित्येकादेशस्य पूर्वं प्रत्यन्तत्त्वात्? परञ्च प्रत्यादिवत्त्वाद्युज्यत एवावर्णादङ्गादुत्तरस्य शतुः? इत्याह--"उभयत आश्रये" इत्यादि। अत्र ह्रकारान्तमङ्गं शता चोभयमाश्रितम्()। "उभयत आश्रये" इत्यादि। अत्र ह्रकारन्तमङ्गं शता चोभयमाश्र#इतम्। "उभयत आश्रये नान्तादिवत्()" (व्या।प।५१) इति नास्त्यन्तादिवद्भावः। न ह्रेकस्यैकदा पूर्वं प्रत्यन्तवद्भावः परञ्च प्रत्यादिवद्भाव उपपद्यते। तथा हि--यदि पूर्वं प्रत्यन्तवद्भवति, तदा शतृरूपं न सम्पद्यते; अथ परं प्रत्यादिवद्भवति, तदाऽकारान्तताऽङ्गस्य न परिकल्प्यते; उच्यते चेदमाच्छीनद्योर्नुमिति, न चवर्णान्तादङ्गादुत्तरः शता क्वचित् सम्भवति; तत्र वचनप्रामाण्याद्भूतपूर्वगतदिराश्रीयते--अवर्णान्तादुत्तरो यः शत पूर्वमासीदिति। अत आह--"भूतपूर्वगत्या" इत्यादि। यदि हि भूतपूर्वगतिराश्रीयते, अवती, ध्नतीत्यादावतिप्रसङ्गः स्यात्(); अत्राप्यवर्णान्तादङ्गादुत्तरः शता पूर्वमासीत्()? इत्याह--"अत्र केचित्समाधिमाहुः" इति। समाधिः=परीहारः। परीहारश्च--शतुरवयव इति। शतुरवयवस्तकारः। तत्रेह शतृशब्दो वत्र्तते, यथा--पटो दन्ध इत्यत्र पटावयवे पटशब्दः, समुदायेषु प्रवृत्ताः शब्दाः क्वचिदवयेष्वपि वत्र्तन्त इति। स च शत्रवयव एकादेशे हि कृतेऽवर्णान्तादङ्गादुत्तरो भवतीति "अन्तरङ्गत्वादेकादेशे कृते" इत्यादिना यत्? कृतञ्चोद्यं तत्? परिह्मतं भवति। किं पुनरनच्कसय तकारस्य नुम्()? रुथञ्च नुम्? स्यात्()? कथञ्च न स्यात्()? "मिदचोऽन्त्यात्? परः" १।१।४६ इति वचनात्()। मा भूत्? तकारस्य, तदन्तस्य भविष्यति। एवञ्च सूत्रार्थं वर्णयिष्यामः--अवर्णान्तादङ्गादुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावत्र्तयिष्यामः-- अवर्णान्तादङ्गदुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावत्र्तयिण्यामः--शत्रवयवविशेषणार्थम्(), अङ्गकार्यप्रतिपत्त्यर्थञ्च। कथं पुनस्तुदतीत्यादी तकारात्? पूर्वस्याङ्गत्वम्(), यावता यतः प्रत्ययो विहितस्तदादेः प्रत्यये परतोऽङ्गसंज्ञा, न च तकारः प्रत्ययः असत्याञ्चाङ्गसंज्ञायां यदुक्तमवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति तन्नोपपद्यते? नैष दोषः; यथैव हि शत्रवयवे शतृशबदो वत्र्तते, तथाङ्गवयवे तकारात्? पूर्वस्मिन्नङ्गशब्दः। किं पुनस्तदङ्गम्()? यस्यावयवः शत्रन्तम्। तस्य हि शौनद्योः परतोऽङ्गत्संज्ञा विधीयते। इहापि तर्हि कस्मान्न भवति--अदती, ध्नतीति, अत्रापि ह्रवर्णान्तादङ्गादुत्तरः शत्रवयदो भवति? यद्यत्रापि स्यात्(), आदिति विशेषणमनर्()थकं स्यात्(), शीनद्योरित्येवं ब्राऊयात्()। यत्र च शीनद्योः परतः शत्रन्तमङ्गं भवति, तत्र नियोगत एवाकारान्तादङ्गादुसरो शत्रवयवो भवति। तस्मात्? "आतः" इति विशेषणोपादानसामथ्र्यात्? विशेषपरिग्रहो विज्ञायते--शत्रवयवदकारात्? पूर्षो योऽकारस्तदन्तादुत्तरो यः शत्रवयव इति नेह नुमः प्रसङ्गः। "अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ" इति। अत्रापि पूर्ववदङ्गावयवेऽङ्गशब्दो वत्र्तते। ननु च तुदन्तीत्यादाववर्णान्तादङ्गादुत्तरे शीनद्यौ न सम्भवत एव; तकारेण व्यवधानात्()? इत्याह--"तत्र येन" इत्यादि। गतार्थम्()। अथ नुम्यनुवत्र्तमाने किमर्थ पुनर्नुम्ग्रहणम्()? नेति, वेति च प्रकृतम्()। तत्र नुम्ग्रहणमन्तरेणानिष्टमपि विज्ञायते--शीनद्योर्विभाषा नुमवर्णान्तान्न भवतीति। किञ्च स्यात्()? कुर्वती, तन्वतीत्यत्र विभाषा स्यात्(), करिष्यन्तीत्यत्र न स्यात्()। केन पुनः प्राप्तस्य नुमः शोनद्योः प्रतिषेधः क्रियते? एतदेव ज्ञापयति--अस्तिशीनद्योर्दिभाषा नुमिति। नुम्ग्रहणे तु क्रियमाणे विधिरेवायं विज्ञायत इत्यदोषः॥
बाल-मनोरमा
आच्छीनद्योर्नुम् ४४०, ७।१।८०

तुदच्छब्दादौङः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्ते--आच्छीनद्योर्नुम्। "नाभ्यस्तात्" इत्यतः शतुरिति, "वा नपुंसकस्य" इत्यतो वेति चानुवर्तते। आदिति पञ्चमी। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते, तच्च आदित्यनेन विशेष्यते , तदन्तविधिः। "परस्ये" त्यध्याह्यियते। "सथु"रित्यनन्तरमवयवस्येत्यध्याह्यियते, तेन च अह्गस्येति षष्ठ()न्तं विशेष्यते, तदन्तविधिः। अङ्गस्येत्यस्य आवृत्तिर्बोध्या। तदाह--अवर्णान्तादित्यादिना। "इदितो नुमि"त्यतोऽनुवृत्त्यैव सिद्धे नुम्ग्रहणं स्पष्टार्थम्। तुदन्तीतुदती इति। औङः श्यां, नुमि, तदभावे च रूपम्। शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात्। ततश्च तुददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः। "अवर्णान्तादङ्गत्वात्। ततश्च तददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः। "अवर्णान्तादङ्गात्परो यः शतृप्रत्ययः" इत्याश्रयणे त्वत्र नुम् न स्यात्। शविकरणाऽकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात्परत्वा।()भावात्, परादित्वे अवर्णान्ताङ्गाऽभावात्, उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम्। तुदन्तीति। जश्शसोश्शिः, सर्वनामस्थानत्वान्नुमिति भावः। भादिति। "भादीप्तौ" लुग्विकरणः। लटः शतरि कृते सवर्णदीर्घे भादिति रूपम्। तस्मात् स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः। भान्तीभाती इति। "औङः शी" "आच्छीनद्यो"रिति वानुमिति भावः। भान्तीति। जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः। पचदिति। पच्धातोर्लटः शतरि शप्, अतो गुणे" इति पररूपम्। पचदित्यस्मात्स्वमोर्लुगिति भावः।

तत्त्व-बोधिनी
आच्छीनद्योर्नुम् ३९७, ७।१।८०

आच्छीनद्योः। नुम्ग्रहणमिह चिन्त्यप्रयोजनं, "नाभ्यस्ताच्छतुः""वा नपुंसकस्ये"त्यत्र "इदितो नुम्धातो"रित्यतोऽनुवृत्तेरावश्यकतया तदुत्तरत्रापि तत एवानुवर्तने बाधकाऽभावात्। शतुपवयव इति। तुदादेः शस्याऽन्तरङ्गत्वाच्छत्रेदेशाऽकारेण सहैकादेशे कृतेऽवर्णान्तत्परस्य शतुरिति न सम्भवति। "उभयत आश्रयणे नान्तादिव"दिति वक्ष्यमाणत्वादिति भावः। भादिति। "भा दीप्तौ"। लटः शतर्यदादित्वाच्छपो लुक्। शप्श्यनोर्नित्यम्। आरम्भसामथ्र्यान्नित्यत्वे सिद्धेऽपि नित्यग्रहणमिह "वे"त्यधिकारनिवृत्त्यर्थम्। अन्यथा ह्रारम्भसारथ्र्यादिह नित्यमुत्तरत्र विकल्प इत्याशङ्क्येत।