पूर्वम्: ७।१।७७
अनन्तरम्: ७।१।७९
 
सूत्रम्
नाभ्यस्ताच्छतुः॥ ७।१।७८
काशिका-वृत्तिः
न अभ्यस्ताच् छतुः ७।१।७८

अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत्, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते।
लघु-सिद्धान्त-कौमुदी
नाभ्यस्ताच्छतुः ३४७, ७।१।७८

अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥ ,
न्यासः
नाभ्यस्तच्छतुः। , ७।१।७८

"उदत्त, ददत्तौ" इति। "श्नभ्यस्तयोरात्तः" ६।४।११२ इत्याकारलोपः। अक्षितिजागर्त्त्याः "जक्षित्यादयः षट्()" ६।१।६ इत्यभ्यस्तसंज्ञा। कथं पुनरयं नुमः प्रतिषेधो विज्ञायते, यावता "अनन्तस्य विधिर्वा भवति प्रतिषेधो षा" (व्या।प।१९) इतीकारस्य प्रतिषेधो युक्तः? इत्याह--"शतुरनन्तरः" इत्यादि। लक्षणान्तरेण विहितस्य प्रतषेधो भवति, न तु शतुरनन्तर ईकारः केनचिद्विहितः। अङ्गस्येति वत्र्तते, न च नुमोऽन्यत्? कार्यं शतुः सम्भवति। अतः सामथ्र्याद्व्य वहितस्यापि "उगिवचाम्()" ७।१।७० इति नुमः प्रतिषेधो विज्ञायत इति॥
बाल-मनोरमा
नाभ्यस्ताच्छतुः , ७।१।७८

नाभ्यस्ताच्छतुः। "इदितो नुम् धातो"रित्यतो नुमित्यनुवर्तते। तदाह--अभ्यस्तादित्यादिना। दददिति। ददत्शब्दात्सुः। हल्ङ्यादिलोपः। "नाभ्यस्ता"दिति निषेधात् "उगिदचाम्" इति नुम् न। अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः। "जक्ष भक्षहसरनयोः", "जागृ निद्राक्षये", "दरिद्रा दुर्गतौ", "चकासृ दीप्तौ", "शासु अनुशिष्टौ" "दीधीङ् दीप्तिदेवनयोः", "वेवीङ् वेतिना तुल्ये" इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः। तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ "नाभ्यस्ताच्छतुः" इति निषेध इष्यते।

तत्त्व-बोधिनी
नाभ्यस्ताच्छतुः ३८०, ७।१।७८

नाभ्यस्ताच्छतुः। व्यवहितोऽपि नुमेवाऽत्र निषिध्यते, अन्येषामप्रसक्तेरित्यभिप्रेत्याह---नुम्न स्यादिति। दददिति। ददातीति ददत्। दाञो लटः शत्रादेशः। शपः श्लुः। "श्लौ"इति द्वित्वम्। अभ्यासस्य ह्यस्वः। "श्नाभ्यस्तयोरातः"इत्यलोपः। जक्षित्यदयः षट्। "ज"क्षिति पृथक् पदम्। "इति"शब्देन जक्षिरेव परामश्यते। इति आदिर्येषामित्यतद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह--षड्धातवोऽन्ये इति। इति तान्ताः। गोपायतीति गुप्। क्विपि विवक्षिते "आयादय आर्धधातुके वे"ति वैकल्पिकत्वादिहाऽ‌ऽयप्रत्ययाऽभावः। आयप्रत्ययपक्षे त्वतो लोपे यलोपे च "गोपा"इति रूपं बोध्यम्। इति पान्ताः।