पूर्वम्: ७।१।८८
अनन्तरम्: ७।१।९०
 
सूत्रम्
पुंसोऽसुङ्॥ ७।१।८९
काशिका-वृत्तिः
पुंसो ऽसुङ् ७।१।८९

पुंस इत्येतस्य सर्वनामस्थाने परतो ऽसुङित्ययम् आदेशो भवति। पुमान्, पुमांसौ, पुमांसः। इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तौ असुञित्यनिष्टः स्वरः प्राप्नोति? तदर्थम् असुङि उपदेशिवद्वचनं कर्तव्यम्। तेन परमपुमानित्यन्तोदात्तो भवति। पुमानित्ययं पुनराद्युदात्त एव।
लघु-सिद्धान्त-कौमुदी
पुंसोऽसुङ् ३५६, ७।१।८९

सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः)। हे उशन, हेउशनन्, हेउशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥
न्यासः
पुंसोऽसुङ्?। , ७।१।८९

असुङो ङकारोऽन्त्यादेशार्थः। उकार उगित्कार्यार्थः। "पुमान्()" इति। "उगिदचाम्()" ७।१।७० इत्यादिना नुम्(), "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। "इह परमपुमान्()" इत्यादि। परमश्चासौ पुमांश्चेति "सन्महत्()" २।१।६० इत्यादिना समासे कृते यावद्विभक्तिर्नोत्पद्यते तावदसुङादेशेन न भवितव्यम्(); तस्य तदाश्रयत्वात्()। समासान्तोदात्तत्वं तु न किञ्चिदपेक्षत इति अन्तरङ्गत्वात्? प्रागेव विभक्तेरन्तोदात्तत्वं भवति। पश्चादुत्पन्नायां विभक्तावसुङ् अस्वरस्य व्यञ्जनस्य स्याने भवन्न नियतस्वरः स्यात्? ततश्चानिष्टोऽपि स्वरः प्राप्नोति, अन्तोदात्तमेव चोत्तरपदमिष्यते, आद्युदात्तत्वं प्राप्नोति। "तदर्थम्()" इत्यादि। अर्थशब्दो निवृत्तिवाची, यथा--मशकार्थो धूम इति। तदर्थं तस्यानिष्टस्य स्वरसय निवृत्त्यर्थमुपदेशिवद्ववचनं कत्र्तव्यम्(), अकृते समासान्तोदात्तत्वं उपदेशावस्थायामेव विभक्त्युत्पत्तेः प्रागसुङ्? यथा स्यात्()। तेनासुङि पूर्वं कृते पश्चात्? समासान्तोदात्तत्वेन परमपुमानित्ययं शब्दोऽन्तोदात्तो भवति। यद्येवम्(), पुमानित्ययं शब्दोऽप्यन्तोदात्तः स्यात्(), उपदेशावस्थायामेवासुङि कृते पश्चात्? प्रातिपदिकस्वरेण भवितव्यम्()? इत्याह--"पुमानित्ययं पुनः" इत्यादि। पुम्स्शब्दोऽयं पुनातेः "मुक्सुनो ह्यस्वश्च" (द।उ।९।४८) [पातेः डुम्सुन्()-द।उ। पातेडुस्सुन्? पं।उ।४।१७७] इति मुक्सुन्प्रत्ययान्तो व्युतपादितः। तेन नित्स्वरेणायमाद्युदात्तो भवति, नान्तोदात्तः॥
बाल-मनोरमा
पुंसोऽसुङ् , ७।१।८९

तत्र सुटि विशेषमाह--पुंसोऽसुङ्। "इतोऽत्सर्वनामस्थाने" इत्यतः "सर्वनामस्थाने" इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे--सर्वनामस्थाने इति। "पुंसोऽसुङ् स्यात्सर्वनामस्थाने" इति फलितम्। ननु तत्पुरुषात्परमपुंस्शब्दात्सुटि असुङादेशात्प्रागेव "समासस्ये"त्यन्तोदात्तत्वं पकारादुकारस्य स्यात्। सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्याऽन्तरङ्गत्वात्प्राप्तेः। इष्यते तु असुङि कृते परमपुमस् इत्यत्र मकारादकारस्य। अत आह--विवक्षिते इति। "पुंसोऽसुङ्" इत्यत्र सर्वनामस्थान इति न परसप्तमी, किंतु "विवक्षिते" इत्यध्याह्मत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुङित्यर्थ आश्रीयते। एवं च सर्वनामस्थानोत्पत्तेः प्रागेव असुङि कृते "समासस्ये"त्यन्तोदात्तत्वं, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः। नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गेऽपि समासस्वरः पकारादुकारस्य अकृतवव्यूहपरिभाषया न भवति, असुङि कृते पकारादुकारस्य समासान्ततायाः प्रनङ्क्ष्यत्त्वादिति वाच्यम्, विविक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभाषाया अस्वीकार्यत्वादिति भावः। अत्र "असुङि उकार इत् उदित्कार्यार्थ" इति प्राचीनमतं दूषयितुमाह--उच्चारणार्थ इति। न त्वित्संज्ञकः। प्रयोजनाऽभावादिति भावः। ननूदित्कार्यमस्ति प्रयोजनमित्यत आह--उगित्त्वेनैवेति। ननु विनिगमनाविरह इत्यत आह-ङीबर्थमिति। बहवः पुमांसो यस्यामिति बहुव्रीहौ सुब्लुकि निमित्ताऽपायादसुङो निवृत्तौ बहुपुंस्शब्दादुगित्त्वान्ङीपि बहुपुंसीशब्दः। अत्र ङीपोऽसर्वनामस्थानत्वात्तस्मिन्विवक्षिते असुङः प्राप्तिरेव नास्ति। डुम्सुन उगित्त्वादेव ङीप् वक्तव्यः। तदर्थं डुम्सुन उगित्त्वमावश्यकं। तेनैव नुमोऽपि सिद्धत्वादसुङ उकार उच्चारणार्थ इति भावः। यद्यप्युणादिषु "पात्तेर्डुम्सुन्" इति वक्ष्यते, तथापि पाठान्तरमिदं द्रष्टव्यम्। "स्त्रियाम्" इति सूत्रभाष्यकैयटयोस्तु सूत्रेः सस्य पः, ऊकारस्य ह्यस्वः, म्सुन्प्रत्यय इत्युक्तम्। पुमानिति। डुंसुन् इति कृतानुस्वानिर्देशः। ततश्च पुंस्शब्दात्सौ विवक्षिते असुङ्। ङकार इत्, उकार उच्चारणार्थः। "ङिचेचे"त्यन्तादेशः। निमित्ताऽपायादनुस्वारनिवृत्तौ पुम्स्()शब्दात् सुः, उगित्त्वान्नुम्, "सान्तमहतः" इति दीर्घः, सोर्लोपः सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भाव#ः। पुमांसाविति। असुङि पुमस् औ इति स्थिते नुमि "सान्ते"ति दीर्घः। "नश्चे"ति नुमोऽनुस्वार इति भावः। पुंसः पुंसेति। शसादावसर्वनामस्थानत्वादसुङभावे रूपम्। यय्परत्वाऽभावान्न परसवर्ण इति भावः। पुम्भ्यामिति। सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः। इत्यादीति। पुंसे। पुंसः, पुंसोः। पुंसीति। अत्र यय्परत्वाऽभावान्न परसवर्णः। नुम्स्थानिकानुस्वारस्यैवोपलक्षणात् "नुम्विसर्जनीये"ति षत्वं नेति भावः। "वश क्रान्तौ" अस्मात् "वशेः कनसिः" इति कनसि प्रत्ययः। ककार इत्। इकार उच्चारणार्थः , ङित्त्वादन्तादेशः। उशनन्()स् इति स्थिते उपधादीर्घः, हल्ङ्यादिना सुलोपः, नलोपः। उशना इति रूपमिति भवः। यद्यपि वशधातुश्चान्दस इति लुग्विकरणे वक्ष्यते, तथापि तत्प्रायिकम्, "वष्टि वागुरिः" इत्यादिनिर्देशात्, "उशना भार्गवः कविः" इति कोशाच्च।

अस्य संबुद्धाविति। एतच्च वृत्तौ पठितम्। वशधातौ माधवस्तु "संबोधने तूशनसरिउआरूपं सान्तं तथा नान्तमथाप्यदन्त"मिति श्लोपवार्तिकमित्याह। भाष्याऽदृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिकाः। हे उशनन्निति। अनङि नलोपाऽभावे रूपम्। हे उशनेति। अनङि नलोपे रूपम्। हे उशन इति। अनङभावे रूपम्। उशनोभ्यामिति। सस्य रुत्वे "हशि चे"त्युत्त्वे "आद्गुणः"। उशनःसु-उशनस्सु। अनेहेति। "नञि हन एह चे"ति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमासः, "नलोपो नञः," "तस्मान्नुडचि" अनेहस्शब्दः। ततः सुः, अनङ्, सुलोपः, उपधादीर्घः, नलोप इति भावः। हे अनेहः। अनेहोभ्यामित्यादि। वेधा इति। "विधञौ वेध च"। विपूर्वाद्धाञ्धातोरसुन्प्रकृतेर्धादेशश्च। असुनि उकार उच्चारणार्थः। उगित्वाऽभावन्न नुम्, ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, रुत्वविसर्गाविति भावः। "वस आच्छादने"लुग्विकरणः। सुपूर्वादस्मात्क्विप्, सुवस्शब्दः। ततः सुः, हल्ङ्यादिलोपः, रुत्वविसर्गौ, "सुव" इति रूपं वक्ष्यति। अत्र "अत्वसन्तस्ये"ति दीर्घमाशङ्क्य आह--दीर्घ इति। नच सुवस्शब्दस्य असन्तत्वादधातुत्वाच्च दीर्घो दुर्वार इति वाच्यम्, धात्ववयवभिन्नोयोऽस्तदन्तस्य दीर्घ इत्याश्रयणात्। सुवोभ्यामित्यादि। "वस निवासे" इति भौवादिकस्य तु नेदं रूपं, तस्य यजादित्वेन संप्रसारणप्रसङ्गात्। पिण्डग्रस्()शब्दः सुवस्शब्दवत्।

तत्त्व-बोधिनी
पुंसोऽसुङ् ३८८, ७।१।८९

पुंसोऽसुङ्। "इतोऽत्सर्वनामस्थाने"इत्यतः सर्वनामस्थाने इत्यनुवर्तनादाह--सर्वनाम स्थान इति। विवक्षित इति। तेन"परमपुमा"नित्यत्र परत्वादसुङि कृते समासान्तोदात्तत्वं भवदसुङ एवाऽकारस्य भवति। परसप्तम्यां तु नैतत्सिध्यते। सर्वनामस्थानोत्पतेः प्रागेव पुम्शब्दोकारस्योदात्तत्वे कृते रुआंसनधर्मणो हलः स्थाने तद्धर्मणोऽनुदात्तस्यैवादेशस्य पर्सङ्गात्। न चोकारस्य कृतोऽपि स्वरोऽनन्त्यत्वान्निवर्तयिष्यते, असुङश्चान्त्यत्वात्करिष्य इति वाच्यम्, अन्तरङ्गे स्वरे कर्तव्ये बहिरङ्गस्याऽसुङोऽसिद्धत्वादिति भावः। वस्तुतस्तु अकृतव्यूहपरिभाषाया अन्तरङ्गपरिभाषापवादत्वात्परसप्तमोपक्षोऽपि सूपपादः। एतच्च मनोरमायां स्पष्टम्। पूञ इति। यद्यप्युणादिषु "पातेर्डुम्सु"न्निति वक्ष्यति, तथापि पाठान्तरमनुसृत्याऽत्रोक्तमिति बोध्यम्। हे पुमन्निति। "असंबुद्धा"वित्युक्तेः "सान्ते"ति न दीर्घः। पुंस्विति। संयोगान्तलोपे "मोऽनुस्वारः"। नुम्स्थानिकस्यैवाऽनुस्वारस्योपलक्षणान्नुम्बिसर्जनीयेति न षत्वम्। उशनेति। "वशेः कनसिः"। "ग्रहिज्ये"ति संप्रसारणम्। अस्य संबुद्धाविति। एतच्च वार्तिकम्। हरदत्तादयस्त्वाहुः--"सोर्डेति वाच्ये "अनङ् सा"विति वचनेन क्वचिदनङ्श्रवणस्य ज्ञापितत्वादेतत्सिद्धमिति। यद्यपिसोर्डे कृते डित्त्वसामथ्र्याट्टिलोपे "सर्वनामस्थाने चाऽसंबुद्धौ"इति दीर्घे"उशाने"त्यनुष्टरूपं प्रसज्यते, तथाप्यङ्गवृ()त्तपरिभाषाया दीर्घो नेति कृत्वा ज्ञापकत्वं सङ्गच्छत इति तेषामाशयः। अनेहा। वेधा इति। असुन्प्रकरणए "नञि हनएहच""विधाञो वेध चे चि व्युत्पादनादसन्तत्वेन दीर्घः। अनेहा-कालः। वेधाः--वि()आसृट्