पूर्वम्: ७।१।९१
अनन्तरम्: ७।१।९३
 
सूत्रम्
सख्युरसम्बुद्धौ॥ ७।१।९२
काशिका-वृत्तिः
सख्युरसम्बुद्धौ ७।१।९२

असम्बुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णित् भवति। सखायौ। सखायः। असम्बुद्धौ इति किम्? हे सखे।
लघु-सिद्धान्त-कौमुदी
सख्युरसंबुद्धौ १८१, ७।१।९२

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥
न्यासः
सख्युरसम्बुद्धौ। , ७।१।९२

"असम्बुद्धौ" इति पर्युदासः--सम्बुद्धेरन्याऽसम्बुद्धिः। "हे सखे" इति। "ह्यस्वस्य गणः" ७।३।१०८ इति गुणः॥
बाल-मनोरमा
सख्युरसंबुद्धौ २५१, ७।१।९२

सखि-औ इति स्थिते णित्कार्यं वृदिं()ध वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धो। "सख्यु"रिति दिग्योगे पञ्चमी। "अङ्स्ये"त्यधिकृतं पञ्चम्या विपरिणम्यते। "पर" मित्यध्याहार्यम्। "इतोऽत्सर्वनामस्थाने" इत्यतः "सर्वनामस्थाने" इत्यनुवर्तते। "असम्बुद्धा"वित्यभेदेनान्वेति। "गोतो णि"दित्यतो "णि"दिति प्रथमान्तमनुवृत्तम्। तत्सामानाधिकारण्या "दसम्बुद्धा"विति सर्वनामस्थाने"इति च सप्तमी प्रथमा कल्प्यते। तदाह-सख्युरङ्गादित्यादिना। णिद्वदिति। णित्कार्यकृत्स्यादित्यर्थः। णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः।

तत्त्व-बोधिनी
सख्युरसंबुद्धौ २१२, ७।१।९२

सख्युरसंबुद्धौ। इह "इतोऽत्सर्वनामस्थाने"इत्यतः"सर्वनामस्थाने"इत्यनुवर्तते, तदसंबुद्धावित्यनेन विशेष्यते। "गोतो णि"दिति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह--संबुद्धिवर्ज्ज सर्वनामस्थानमिति। "सख्युरसंबुद्धि"रित्येव सूत्रयितुं युक्तमिति मनोरमायां स्थितम्। ननु"सखे"त्यत्रोपधादीर्घे बाधित्वना परत्वाद"त उपधाया"इति वृद्ध्या भाव्यं, सोर्णित्त्वादिति चेदत्राहुः-कृताऽकृतप्रसङ्गित्वमात्रेणापि नित्यत्वस्वीकारात्, अन्तरङ्गत्वाच्च "सखे"त्यत्र वृदिं()ध बाधित्वा "सर्वानामस्थाने चासंबुद्धौ" इत्युपधादीर्घेणैव भवतव्यम्, "सख्युरसंबुद्धा"विति णिद्वद्बावमुपजीव्याऽत्र पर्वर्तमानस्य "अत उपाधायाः"इत्यस्य बहिरङ्गत्वादिति।