पूर्वम्: ७।२।१४
अनन्तरम्: ७।२।१६
 
सूत्रम्
यस्य विभाषा॥ ७।२।१५
काशिका-वृत्तिः
यस्य विभाषा ७।२।१५

यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति। वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा ७।२।४४। विधूतः। विधूतवान्। गुहू गूढः। गूढवान्। उदितो वा वृधु वृद्धः। वृद्धवान्। तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेर् विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित २।१।२३ ति निपातनातिडागमः।
न्यासः
यस्य विभाषा। , ७।२।१५

"विधूतः" इति। "धूञ्? कम्पने" (धा।पा।१८३६) "गूढः" इति। "गूहू संवरणे" (धा।पा।९८६)। ढत्वादिषु कृतेषु "ढ्रलोपे" ६।३।११० इत्यादिना दीर्घः। अतेह कस्मात्? प्रतिषेधो न भवति--पतित--पतित इति, भवति हि पतिर्विभाषितेट्? "सनीवन्तर्घ" (७।२।४९) इत्यत्र "तनिपतिदरद्राणामुपसंख्यानम्()" इति विकप्लेनोपसंख्यानात्()? इत्यत आह--"द्वितीयाश्रित" इत्यादि॥
बाल-मनोरमा
यस्य विभाषा ८३४, ७।२।१५

यस्य विभाषा। यस्येति। यस्मादित्यर्थः। निष्ठाया इण्न स्यादिति। "()आईदितः" इत्यतो निष्ठायामिति, "नेड्वशी"त्यतो नेडिति चानुवर्तत इति भावः। नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह-- उदितो वेति। समन्क इति। सङ्गत इत्यर्थः। संपूर्वादञ्चुधातोः क्तः। "आद्र्धधातुकस्ये"डिति प्राप्तस्य इटो निषेधः। "अनिदिता"मिति नलोप-। चस्य कुत्वम्। उदक्तमुदकं कूपादिति। उद्धृतमित्यर्थः। अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः। "ओ व्रश्चू छेदने" सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः, "ग्रहिज्ये"ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिह "यस्य विभाषे"ति नेट्, चस्य कुत्वेन कः, "ओदिश्चे"ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात् "स्को"रिति सलोपः णत्वम्। वृक्ण इति रूपमिति स्थितिः। तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात् "व्रश्चे"ति षत्वं स्यादित्यत आह-- निष्ठादेशः षत्वेति। तथा च "व्रश्चभ्रस्जे" ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः। स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि।

तत्त्व-बोधिनी
यस्य विभाषा ६८३, ७।२।१५

यस्य विभाषा। यस्येत्याद्र्धधातुकापेक्षया षष्ठी। यदीयस्याद्र्धधातुकस्येत्यर्थः। समक्न इति। अञ्चु व्यक्ती"त्यस्य,न त्वञ्चेः। तेनात्र न्तवाऽबावः। वृक्ण इति। ओव्रश्चू छेदने। "ग्रहिज्ये" ति संप्रसारणम्। नत्वस्याऽसिद्धत्वात् "स्को"रिति सलोपः, "चोः कुः" इति कुत्वं च। ऊदित्वेन वेट्कत्वात् "यस्य विभाषे"ति निषठाया इडभावः। नुड्विधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन ग्रहणादृकारैकदेशो रेफो निमित्तमिति "अट्कुप्वा"ङिति नस्य णत्वम्। णत्वस्य "विनाम" इति प्राचां संज्ञा। "ऋवर्णान्नस्य णत्व"मिति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थं क्षुभ्नादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्याऽपि "अट्()कुप्वा" ङिति णत्वं भवत्येवेति दिक्।