पूर्वम्: ७।२।४३
अनन्तरम्: ७।२।४५
 
सूत्रम्
स्वरतिसूतिसूयतिधूञूदितो वा॥ ७।२।४४
काशिका-वृत्तिः
स्वरतिसूतिसूयतिधूञूदितो वा ७।२।४४

स्वरति सूति सूयति धूञित्येतेभ्यः, ऊदिद्भ्यश्च उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। स्वर्ता, स्वरिता। सूति प्रसोता, प्रसविता। सूयति सोता, सविता। धूञ् धोता, धविता। ऊधिद्भ्यः खल्वपि गाहू विगाढा, विगाहिता। गुपू गोप्ता, गोपिता। वा इति वर्तमने पुनर् वाग्रहणं लिङ्सिचोर् निवृत्त्यर्थम्। सूतिसूयत्योर् विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देसो धू विधूनने इत्यसय् निवृत्त्यर्थः। सविता, धुविता इत्येव नित्यम् एतयोर् भवति। स्वरतेरेतस्माद् विकल्पातृद्धनोः स्ये ७।२।७० इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये श्र्युकः किति ७।२।११ इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा।
लघु-सिद्धान्त-कौमुदी
स्वरतिसूतिसूयतिधूञूदितो वा ४७८, ७।२।४४

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥
न्यासः
स्वरतिसूतिसूयति घूञूदितो वा। , ७।२।४४

"स्वृ शब्दोपतापयोः" (धा।पा।९३२), "षूङ् प्राणिगर्भविमोचने" (धा।पा।१०३१) इत्यादादिकः, "षूङ् प्राणिप्रसवे" (धा।पा।११३२) इति दैवादिकः। "घूञ्? कम्पने" (धा।पा।१२५५,१४८७,१३८५) इति स्वादिः, क्र्यादिः, चुरादिश्च। तत्र "एकाचः" ७।२।१० इत्यधिकारादाद्ययोग्र्रहणम्(), नेतरस्य। ऊदितः--"गाहू विलोडने (धा।पा।६४९), "गुपू रक्षणे" (धा।पा।३९५) इत्यादयः। एतेषां स्वरतेश्चानुदात्तत्वात्? प्रतिषेधे प्राप्ते, इतरेषामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्()। "विगाढा" इति। पूर्ववङ्ढत्वादि विधेयम्()। अथ वावचनं किमर्थम्()? यावता "इट्? सनि वा" (७।२।४१) इत्यतो वाग्रहणमनुवत्र्तते? इत्याह--"वेत्यनुवत्र्तमाने" इत्यादि। तद्धि वाग्रहणं लिङ्()सिज्भ्यां सम्बद्धमिति तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्()। तस्मात्? पूर्ववाग्रहणसम्बद्धयोर्लिङ्सिचोर्निवृत्त्यर्थमन्यदिदं वाग्रहणमिति। ननु च लिङ्()सिचोरनुवृत्तिः स्यात्()। तस्मात्? पूर्ववग्रहणसम्बद्धयोरलिङ्()सिचोर्निवृत्त्यर्थमन्दिदं वाग्रहणमिति। ननु च लिङ्()सिचोरनुवृत्तौ स्वरतिग्रहण मनर्थकमापद्यते, पूर्वेणैव विकल्पस्य सिद्धत्वात्()? नैतदस्ति; वचनप्रामाण्यात्? स्वरतिग्रहणं नित्यार्थं विज्ञायते। अथ वा--स्वरितग्रहणात्? "वा" इत्येतन्निवत्र्तते। अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, न "सू" इत्येबोध्येत? इत्यत आह--"सूतिसूयत्योः" इत्यादि। "सू" इत्युच्यमाने "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति "सू प्रेरणे" (धा।पा।१४०८) ["षू प्रेरणे"--धा।पा।] इत्यस्यैव ग्रहणं स्यात्()। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत्? प्रयोजनम्(), सूङिति निर्देशः कत्र्तव्यः? नैवं शक्यम्(); एवं हि सति निर्देशे क्रियमाणे "लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्()" (व्या।प।५०) इति सूयतेरेव ग्रहणं स्यात्(), न सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्रसत्यां "सूङ्()" इति निर्देशं कुर्यात्()। अथ "धूञ्()" इति सानुबन्धकस्य ग्रहणं न क्रियेत, ततो निरनुबन्धकपरिभाषया (व्या।पा।५३) "षू विधूनने" (धा।पा।१३९८) इत्यस्यैव ग्रहणं स्यात्(), एतच्चानिष्टम्()। अतो विधूननार्थस्य निवृत्त्यर्थः सानुबन्धकनिर्देशः। "स्वरतेः" इत्यादि। अस्य विकल्पस्यावकाशः--स्वरिता, स्वत्र्तेति; ऋद्धनीः स्ये" ७।२।७० इत्यस्यावकाशः--करिष्यति, हरिष्यतीति; स्वरतेरस्योभयप्रसङ्गे "ऋद्धनोः स्ये" ७।२।७० इत्येतद्भवति विप्रतिषेधेन--स्वरिष्यति इति। "किति तु प्रत्यये" इत्यादि। "श्रयुकः किति" ७।२।११ इत्यस्यावकाशः--सूतः, सूतदानि, अस्य विकल्पस्यावकाशः--स्वत्र्ता, स्वरितेति; सोता सविता; धोता, धवितेति; इहोमयप्रसङ्गे "श्रयुकः किति" ७।२।११ इति नित्यं [नित्यः--काशिका] प्रतिषेधो भवति पूर्वविप्रतिषेधेन--स्वृत्वा, सूत्वा, धूत्वा"। एतच्च पुरस्तात्? प्रतिषेधकाण्डविधानादेव सिद्धम्()। उक्तं हि प्राक्? पुरस्तात्? प्रतिषेधविधानस्य प्रयोजनम्()--इण्मात्रस्यानाधितदिधानविशेषस्य प्रतिषेधो यथा स्यादिति। तदेतत्? पुरस्तात्? प्रतिषेधविधानं पूर्वदिप्रतिषेधेन समानफलकत्वादिह पूर्वविप्रतिषेधशब्देनोक्तम्()॥
बाल-मनोरमा
स्वरतिसूरतिसूयतिधूञूदितो वा १२३, ७।२।४४

तत्र वलादावाद्र्धधातुके नित्यमिटि प्राप्ते--स्वरति। "आद्र्धधातुकस्येड्वलादे"रित्यनुवर्तते। स्वरति सूति सूयति धूञ् ऊदित्--एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं। फलितमाह-- स्वरत्यादेरिति। स्वरतीति स्वृधातोः शपा निर्देशः। सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः। एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम्। "धूञ् कम्पने" स्वादिः क्र्यादिश्च। ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम्। "इट्सनि वे"त्यतो वेत्यनुव्रतमाने वाग्रहणं "लिङ्सिचोरात्मनेपदेष्वि"ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम्। एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध्-- थ इति स्थिते।

तत्त्व-बोधिनी
स्वरतिसूरतिसूयतिधूञूदितो वा ९८, ७।२।४४

स्वरतिसूति। "स्वृ शब्दोपतापयोःर" भ्वादिः। ननु "स्वरतिसूधूञूदितो वे"ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन?। मैवम्। तथाहि सति निरनुबन्धकपरिभाषया "षू प्रेरणे" इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः। न चैवं षूङिति पठ()तामिति वाच्यं, "लुग्विकरणाऽलुग्विकरणयो"रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात्। अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः। "धूञ् कम्पने"स्वादिः क्र्यादिश्च। सानुबन्धनिर्देशो [अन्यथा लिङ्गिज्विशिष्टं वापदमत्रापि सिङ्सचोरेव विकल्पं कुर्यात्। पुनर्वाग्रहणे तु आद्र्धधातुकमात्रे विकल्पः सिद्ध इति भावः]।