उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न। ऊदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः। वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः॥कान्तेषु शक्लेकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषु प्रच्छेकः। जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश। धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश। भान्तेषु यभ्रभ्लभस्त्रयः। मान्तेषु गम्यम्नम्रमश्चत्वारः। शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश। षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश॥ सान्तेषु घस्वसती द्वौ। हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहोऽष्टौ। अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम्।गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥
"अनुदात्तात्()" इति। बहुव्रीहिरयम्()--नास्योदात्तोऽस्तीत्यनुदात्तः। अन्वर्थशब्दोऽयमनुदात्तशब्दः। शास्त्रीये ह्रनुदात्ते गृह्रमाण एकवर्णा एव धातवो गृह्रेरन्()। तथा चान्येवां धातूनामनुदात्तप्रतिज्ञानमनर्थकं स्यात्()। इह चेकाज्ग्रहममुपदेशविशेषणम्()।
"उपदेशे" इति। प्रकृतिपाठ इत्यर्थः। "अनुदात्तश्च" इति। उपदेश इत्यपेक्षते; तेनोपदेशग्रहणमुभयविशेषणमिति दर्शयति। तस्य प्रयोजनं प्रत्युदाहरणेष्वाविष्करिष्यति। "ये तथा गणे पठ()न्ते" इति। एतेन गणपाठादेव ते वेदितव्या इति दर्शयति। "त एव" इत्यादिना द्वितीयं परिज्ञानहेतुमाह।
काः पुनस्ता अनिट्()कारिकाः? इत्याह--"अनिट्स्वरान्तः" इत्यादि।
यावातन् कश्चित्? स्वरान्तोऽजन्तो धातुः स सर्वोऽनिङ्भवतोत्येतददृश्यताम्(), अवगम्यताम्()। अनिडिति बहुव्रीहिः--नास्मादिडस्तीति।
"अनिट्? स्वरान्तः" इत्यस्योत्सर्गस्यापवादमाह--"इमांस्तु" इत्यादि।
इमांस्त्वदन्तादीन्? वक्ष्यमाणान्? सेटः प्रवदन्ति। इटा सह वत्र्तन्त इति सेटः।
के वदन्ति? तद्विदः सेडनिड्विद इत्यर्थः। "अदन्तम्()" इति बहुव्रीहिः--अकारस्तपरोऽन्तो यसय स तथोक्तः। तपरकरणं दीर्घनिवृत्त्यर्थम्()। "ॠदन्तम्()" इति। अयमपि बहुव्रीहिः। तपरकरणमसन्देहार्थम्()। रन्तमित्युच्यमाने,
किमयं रेफस्य निर्देशः? उत्त ॠकारस्य? इति सन्देह--स्यात्()। "ॠतां च" इति। ॠतामिति निर्धारणे षष्ठी। ऋकारान्तानां मध्ये वृङवृञो सेटौ प्रवदन्ति। तपरकरणं पादपरणार्थम्()। पूर्वमृकारान्तग्रहणागेन हि ह्यस्वस्य ग्रहणमिहावसीयते। "()इआडीङिवर्णेषु" इति। निर्घारणे सप्तमी। इवर्णान्तेषु, मध्ये ()इआडीङौ सेटौ प्रवदन्त। "टु ओ()इआ गतिवृद्ध्योः" (धा।पा।१०१०),
"डीङ्? विहायसागतौ" (धा।पा।९६८)। "अथ शीङ्श्रिञावपि" इति। "अथेत्यानन्तर्ये। अनयोः पूर्वक्तयोरनन्तरं शीङ्श्रिञावपि सेटौ प्रवदन्ति।
"घीङ्? स्वप्ने" (धा।पा।१०३२),
"श्रिञ्? सेवायाम्()" (धा।पा।८९७)।
"गणस्थम्()" इति। स्वरूपख्यानमेतत्(), न तु विशेषणम्()--गणनिवृत्त्यर्थमिति; तस्यासम्भवात्()। "ऊन्तम्()" इति।
"लूञ्? छेदने" (दा।पा।१४८३),
"पूञ्? पवने" (धा।पा।१४८२) इत्येवमादयः। "उत्ताञ्च" इति। निर्धारणषष्ठी। "रु शब्दे" (धा।पा।१०३४), "स्नु प्ररुआवणे"[ष्णु--धा।पा।] (धा।पा।१०३८)। "क्षुवं तथोर्णोतिम्()" इत्यादि। "टु क्षु शब्दे" (धा।पा।१०३६),
"ऊर्णुञ्? आच्छादने" (धा।पा।१०३९), "यु मिश्रण" (धा।पा।१०३३), [मिश्रणेऽमिश्रणे च--धा।पा।] "णु स्तुतौ" (धा।पा।१०३५), "क्ष्णु तेजने" (धा।पा।१०३७)। "आवधिष्ट" इति। आङ्पूर्वाद्धन्तेर्लुङ्, "आङोयमहनः"
१।३।२८ इत्यात्मनेपदम्(); "आत्मनेपदेष्वन्यतरस्याम्()"
२।४।४४ इति वधादेशः। स चावधीदित्यत्र वृद्धिर्मा भूदित्येवमर्थमदन्तः पठ()ते। इट्(), "अतो लोपः"
६।४।४८ इत्यकारलोपः।
अथ किमर्थमूर्णोतिरुदात्त उपदिश्यते? इट्प्रतिषेधो मा भूदिति चेत्()? नैतदस्ति; एकाचो हीट्()प्रतिषेध उच्यते,
न चास्यैकाचत्वमस्ति? इत्यत आह--"वाच्य ऊर्णोर्णुवद्भावः" इति। "एकाच्त्वम्()" इति। पदान्तस्यापि कुत्वाभावः, कुत्वस्यानित्यत्वात्()। अनित्यत्वं तु "बह्वच्पूर्वपदात्()"
४।४।६४, "अल्पाच्तरम्()"
२।२।३४ इति निर्देशाद्वेदितव्यम्()। "इति" इत्येवमर्थः। "निपुणम्()" इति। सम्यगविपरीतमित्यर्थः। क्रियाविशेषणञ्चैतत्()। "समुच्चिताः" इति। उदात्तानुदात्तसङ्कीर्णाद्धातुराशेः पृथग्व्यवस्थिता इत्यर्थः।
"ततः" इति। स्वरान्तधातुसमुच्चयनादुत्तरकालम्()। "हलन्तानपि निबोधत", अवगच्छतेत्यर्थः। "शकिस्तु" इत्यादि। "शक्लृ शक्तौ" (धा।पा।१२६१)। "घसिश्च" इत्यादि। ननु चादिं हदिमित्यादेः स्वरूपग्रहणे सति तस्य स्थाने "लुङ्सनोर्थस्लृ"
२।४।३७ इति विहितस्य घस्लादेशस्यापि स्यानिवद्भावेनानिट्त्वं सिध्यत्येव,
तत्किमर्थं घसिः पृथगुपादीयते? इत्याह--"घसिः प्रकृत्यन्तरमस्ति" इति। अन्यदेव हीदं धात्वन्तरं "घस्लु अदने" (धा।पा।७१५) इत्यदादौ पठ()ते, तस्येदं ग्रहणम्(), न त्वादेशस्य। "प्रसारणी" इति। प्रसारणम्()=सम्प्रसारणम्(), तदस्यास्तीति प्रसारणी। "वसिता" इति। "वस आच्छादने" (धा।पा।१०२३)। "वस निवासे" इत्यस्य सम्प्रसारणं विहितम्()" इति। वाच्यादिसूत्रेण
६।१।१५। एतेन निवासार्थो वसिः प्रसारणी, न त्वाच्छादनार्थं इति दर्शयति।
"रभिश्च" इत्यादि। "रभ राभस्ये" (धा।पा।९७४) "यभ मैथुने (धा।पा।
९८०) "डु लभष्? प्राप्तो" (धा।पा।९७५)।
"यमिञंमन्तेषु" इत्यादि। "ञम्()" इति ञकारादारभ्य अमो मकारेण प्रत्याहरग्रहणम्()। "यम उपरमे" (धा।पा।९८४), "रमु क्रीडायाम्()" (धा।पा।८५३), "मन ज्ञाने" (धा।पा।११७६), "णम प्रह्वत्वे शब्दे च" (धा।पा।९८१), "हन हिंसागत्योः" (धा।पा।१०१२), "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३)। "श्यनिपठ()ते" इति।
श्यन्ग्रहणेन साहचर्यात्? दिवादिर्लक्ष्यते। दिवादौ पठ()त इत्यर्थः। "प्रतिषेधदाचिनाम्()" इति। प्रतिषेधं वक्तुं शीलं येषां ते तथोक्ताः धातव एव ह्रनुदात्तलिङ्गानुषक्ताः प्रतिषेधं प्रतिपादयन्तति प्रतिषेधवाचिन उच्यन्ते। अथ वा--इट्प्रतिषेधमात्मविषयमाचार्येण वाचयन्त्यभिधापयन्तीति प्रतिषेधवाचिन इत्युच्यन्ते। एवञ्चात्र सम्बन्धः कत्र्तव्यः--ञमन्तेषु मध्ये ये परतिषेधवाचिनो धातवस्तेषां मध्ये यमिरनिडिष्यते। "रमिश्च" इत्यादि। अथ वा--प्रतिषेधवाचिनामित्यत्र मतेनेत्यध्याहार्यम्()। तत्रैवं सम्बन्ध कत्र्तव्यः--इट्प्रतिषेधवाचिनामाचार्याणां मतेन यमिर्ञमन्तेष्वनिडेक इष्यत इति।
"मनुतेः" इति। "मनु अवबोधने" (धा।पा।१४७१) इत्येतस्य तानादिकस्य।
"दिहिः" इत्यादि। "दिह उपचये" (धा।पा।१०१५), "दुह प्रपूरणे" (धा।पा।१०१४), "मिह सेचने" (धा।पा।९९२) "रुह जन्मनि प्रादुर्भावे" (दा।पा।८५९), "वह प्रापणे" (धा।पा।१००४), "णह बन्धने" (धा।पा।११६६), "दह भस्मीकरणे" (धा।पा।९९१), "लिह आस्वादने" (धा।पा।१०१६)। "मुक्तसंशयाः" इति। मुक्तः= त्यक्तः संशयो येषु यैर्वा ते तथोक्ताः। "प्रविभज्य कीर्त्तिताः" इति। सेडनिङ्()विभागेन व्यवस्थाप्य कीर्त्तिता इत्यर्थः।
"देग्धा, दोग्धा" इति। "दादेर्धातोर्धः"
८।२।३२ इति धत्वम्(), "झषस्तथोर्धोऽधः"
८।२।४० इति धत्वम्(),
"झलां जश्? झशि"
८।४।५२ इति जश्त्वमित्येते विधयः कत्र्तव्याः। "मेढा, "आरोढा" इति। "हो ढः"
८।२।३१ इति ढत्वम्(), पूर्ववद्धत्वम्(), "ष्टुन ष्टुः"
८।४।४० ष्टुत्वम्(), "ढो ढे लोपः"
८।३।१३ इति डलोपः। "वोढा" इति। पूर्ववड्ढत्वादि; "सहिवबोरोदवर्णस्य"
६।३।१११ इत्योत्त्वम्()। "नद्धा" इति। "नहो धः"
८।२।३४ इति धत्वम्(), पूर्ववज्जश्तवम्()। "तन्नान्तरे" इति। आपिशले व्याकरणे। "सहेर्विकल्पस्तकरादौ" इति। "तीषसह"
७।२।४८ इत्यादिना तकारादौ सहेर्विकल्प उक्तः। "मुहिरपि रधादौ पठ()ते" इति। एतेन मुहेरपि "रधादिभ्यश्च"
७।२।४५ इति विकल्पं दर्शयति। "तेन तौ ससंशयौ सविकल्पौ" इति। एतेन विकल्पात्मकेन संशयेन तौ ससंशयौ न तु सन्देहात्मकेनेति दर्शयति। "इतरौ" इति। रिहिलुही। "कैश्चिदभ्युपगम्येते" इति। आपिशलिप्रभृतिभिः। "स्वरूपेणैव ससंशयौ" इति। स्वरूपेणेति स्वभावेन। ससंशयौ=ससन्देहौ। संशयो ह्रतर सन्देहे वत्र्तते। सन्देहस्तु--धातुष्वपाठात्()। अथ च कैश्चिदभ्युपगमाच्च। तयोश्चैको हिंसायां वत्र्तमानोऽब्युपगम्यते, अपरस्तु गाध्र्ये।
"दिशिं दृशिम्()" इत्यादि। "दिश अतिसर्जने" (धा।पा।
१२८३) "दृशिर्? प्रेक्षणे" (धा।पा।९८८), "दन्श दशने" (धा।पा।९८१) "अथो शब्दः पादपूरणे। मृश आमद्र्दने" (धा।पा।१४२५),["आमर्शने"--धा।पा।] "स्पृश संस्पर्शे"["संस्पर्शने"--धा।पा।] (धा।पा।१४२२) "रुश रिश हिंसायाम्" (धा।पा।१४१९,१४२०), "क्रूश आह्वानेग रोदने च" (धा।पा।८५६), "विश प्रवेशने" (धा।पा।१४२४), "लिश अल्पीभावे" (धा।पा।११७९)। "पुराणगाः" इति। पुराणम्()=व्याकरणम्(), चिरन्तनत्वात्()ष तदगायन्त्यधीयते येते पुराणगाः। "पाठेषु" इति अनिट्कारिकापाठेषु, धातुपाठेषु वा। "नेतरान्()" इति। "स्पश बाधनस्पर्शनयोः" (धा।पा।८८७) इत्येमादीनिति।
"देष्टा" इति। व्रश्चादिसूत्रे
८।२।३६ षत्वम्()। "अनुदात्तस्य"
६।१।५८ इत्यादिना मृशिप्रभृतीनामनुदात्तेट्प्रतिषेधादधिकं कथं दर्शयति।
"रुधिः सराधिः" इत्यादि। सह राधिना वत्र्तत इति सराधिः।
"रुधिर्? आवरणे" (धा।पा।१४३८), "राध साध संसिद्धौ" (धा।पा।११६२,११६३)। "राधोऽकर्मकाद्()वृद्धौ" इति। द्वयोरपि ग्रहणमिष्यते, विशेषाभावात्()। "युध सम्प्रहारे" (धा।पा।११९०), "शुध शौचे" (दा।पा।११९१), "बुध अवगमने" (धा।पा।११७२), "व्यध ताडने" (धा।पा।११८१), "सिधु संराद्धौ"["षिधु"--धा।पा।] (धा।पा।११९२)। "नेतरे" इति। इन्धिप्रभृतयः। "न्याय्यविकरणयोः" इति शब्विकरणयोरित्यर्थः। "बुध बोधने" (धा।पा।८७५), ["बुधिर्()"--धा।पा।] "षिधु गत्याम्()" (धा।पा।४७)["विध"--धा।पा।] इत्येतयोः। "निष्ठायामपि" इत्यादि। अथ कतं बुधेर्भौवादिकस्य प्रति,
#एध आशङ्कितः? सिधेरुदित्त्वेन प्रतिषिद्धत्वात्()। "उदित्तो वा" (७।२।
५६) इति कत्वाप्रत्यये विकल्पविधानात्? "यस्य विभाषा"
७।२।१५ इति निष्ठायां प्रतिषेधेन भवितव्यमिति युक्ता प्रतिषेधाशङ्का। बुधेस्तु न किञ्चिन्निष्ठायां प्रतिषेधाशङ्काकारणमस्ति। तस्याप्यस्ति--इह भौवादिकदैवादिकयोर्बुध्योरर्थरूपे समाने, अतश्चार्थरूपसाम्यादुपजातभ्रान्तिः प्रतिपत्ता; एक एवायं धातुः, विकरणद्वयार्थमुभयोर्गणयोः पाठः, तस्य चाद्र्धधातुक इडप्युक्तः, अनेन सूत्रेणेट्प्रतिषेधोऽपीत्येकविषयत्वाद्विधिप्रतिषेधयोः पर्यायप्रतिपत्तो विभाषेट्त्वम्(), अतः "यस्य विभाषा"
७।२।१५ इति निष्ठायां प्रतिषेधे न भवितव्यमिति कैश्चिन्मन्यते।
तस्मात्? तन्मतमाशङ्क्येदमुक्तम्()--निष्ठायामपीत्यादि। एवं मन्यते--अन्य एव भौदादिको बुधिर्यस्येङविधिः, अन्यश्च वैवादिको यस्येट्प्रतिषेधः;
तस्मात्? भिन्नविषयत्वाद्विधिप्रतिषेधयोर्विभाषेट्त्वं नोपपद्यत इति। अथ सिषेर्निष्ठाया प्रतिषेधाभावः कथमुक्तः,
यावतीदिस्वात्? तस्य "उदितो वा" (७।२।
५६) इति विभाषेट्त्वात्? "यस्य विभाषा" (७।२।
१५) इति निष्ठायां भवितव्यमेव प्रतिषेधेन? एवं मन्यते--सिधेरुदित्त्वमनार्षमेव, यद तस्योदित्त्वं स्यात्(), भ्वादौ पाठोऽनर्थकः स्यात्(); यदनेन साध्यं रूपं तस्य "षिधू शात्रे" (धा।पा।४८) ["शास्त्रे माङ्गल्ये च"--धा।पा] इत्यनेनैव सिद्धत्वात्()।
अनुदित्त्वे तु तस्य सिधितमित्येतत्सिद्धयेऽर्थवान्? पाठो भवति।
न ह्रेतत्? "षिधू शास्त्रे" इत्यतेन सिध्यतीति। ऊदित्त्वेनास्य "स्वरितसूति"
७।२।४४ इत्यादिना विभाषितेटः "यस्य विभाषा"
७।२।१५ इति निष्ठायामिट्प्रतिषेधात्()।
तस्माद्? भ्वादिपाठादेव सिद्धे सिधेरुदित्त्वमनार्षमेव।
"शिर्षि पिषिम्()" इत्यादि। "शिष्लृ विशरणे" (धा।पा।१४५१), ["विशेषणे"--धा।पा।] "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२), "शुष शोषणे" (धा।पा।११८३), "पुष पुष्टौ" (धा।पा।११८२), "त्विष दीप्तौ" (धा।पा।१००१)। "जिषु विषु मिषु सेचने" (धा।पा।६९७,६९८,६९९), "श्रिषु श्लिषु प्रषु प्लुषु दाहे" (धा।पा।७०१-७०४)--द्वयोरपि ग्रहणम्()। "तुष तुष्टौ" (धा।पा।११८४), ["प्रीतौ"--धा।पा।(तूष तुष्टो--धा।पा।६७४)] "दुष वैकृत्ये" (धा।पा।११८५), "द्विष अप्रीतौ" (धा।पा।१०१३), "कृष विलेखने" (धा।पा।१२८६)--भौवादिकतौदादिकौ। "पुष्यति" इति। श्यना निर्देशो भौवादिककैयादिकयोर्निवृत्त्यर्थः। शुष्यतिप्रभृतीनां तु वृत्तभङ्गपरिहारार्थः। "क्रष्टा, कर्ष्टा" इति। पूर्ववद्विकल्पेनामागमः।
"तपिं तिपिम्()" इत्यादि। "तप सन्तापे" (धा।पा।९८५), "तप ऐश्यर्ये" [दाहे ऐ()आर्ये वा---धा।पा।] (धा।पा।९८४)--द्वयोरपि ग्रहणम्()। "तिपृ तेपृ ष्टेपृ क्षरणार्थाः, (धा।पा।३६२,३६३,३६५), "आप्लृ व्याप्तौ" (धा।पा।१२६०), "टु वपबीजतन्तुसन्ताने" (धापा।१००३),[डु वप बीजतन्तुसन्ताने, छेदनेऽपि--धा।पा।
] "ञि ष्वप्? शये" ["ष्वप"--धा।पा।] (धा।पा।१०६८), "लिप उपदाहे" (धा।पा।१४३३), "लुप्लू छेदने" (धा।पा।१४३१), "तृप पीणने" (धा।पा।११९५), "हप हर्णणमोचनयोः" (धा।पा।११९६), ["हर्षमोहनयो-धा।पा।] "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३)। "स्वरेण नीचेन" इति। अनुदात्तेनेत्यर्थः। "शप आक्रोशे" (धा।पा।१०००), "शप उपालम्भे" ["आक्रोशे"--धा।पा।] (धा।पा।११६८)--उभयोरपि ग्रहणम्()। "छुप स्पर्शे" (धा।पा।१४१८), "क्षिप प्रेरणे" (धा।पा।१२८५)। तृप्यति दृप्यत्योरनुदात्तेत्त्वममागमार्थम्(), "अनुदात्तस्य"
६।१।५८ इत्यादिना पक्षेऽमागमो यथा स्यात्()।
इद्प्रतिषेधार्थं कस्मान्न भवति? इत्याह--"इट्? त्वनयोः" इत्यादि। "तुदादिषु यौ तृपिदृपी" इति। "तृप तृम्प तृप्तौ"["तृन्फ"--धा।पा।] (धा।पा।१३०७,१३०८), दृप उपक्लेशे"["उल्लकेशे--धा।पा।] (धा।पा।१३१३) इत्येतौ।
"अदिं हदिम्()" इत्यादि। "अद भक्षणे" (धा।पा।१०११),"हद पुरोषोत्सर्गे" (धा।पा।९७७), "स्कन्दिर्गतिशोषणयोः" (धा।पा।९५९),
"भिदिर्? विदारणे" (धा।पा।१४३९),
"छिदिर्? द्वैधीकरणे" (धा।श।१४४०),
"क्षुदिर्? सम्पेषणे" (धा।पा।१४४३), "शद्लु शातने" (धा।पा।८५५), "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४), "ञि ष्विदा गात्रप्रक्षरणे" (धा।पा।११८८), "पद गतौ" (धा।पा।११६९)। "खिद दैन्ये" (धा।पा।११७०), "खिद परिद्याते" (धा।पा।१२८२), "विद सत्तायाम्()" (धा।पा।११८८), "पद गतौ" (धा।पा।११६९), "विद विचारणे" (धा।पा।१४५०)। "ञिष्विदेत्यस्य ग्रहणं मा भूत्()" इति। "ञिष्विदा स्नेहमोचनयोः (धा।पा।७४४) ["स्नेहनमोचनयोः--धा।पा।] इत्यस्य। "अन्यविकरणनिवृत्त्यर्थः" इति। "विद ज्ञाने" (धा।पा।१०६४) इति लग्विकरणस्य, "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य शविकरणस्य च निवृत्त्यर्थः। "विद वेदनाख्यानविवासेषु" (धा।पा।१७०८) ["चेतनाख्यानविवासेषु"--धा।पा।] इत्यस्य चौरादिकस्यानेकाच्त्वा देवाप्रसङ्गः।
"पचिं वचिम्()" इत्यादि।
"डु पचष्? पाके" (धा।पा।९९६)। "वच परिभाषणे" (धा।पा।१०६३), "व्रुवो वचिः"
२।४।५३ इति च द्वयोरपि ग्रहणम्()। सौत्रोऽप्युपदेशो भवत्येव।
"विचिर्? पृथग्भावे" (धा।पा।१४४२),
"विचिर्? विवेचने" (धा।१०९४),
["विजिर्? पृथग्भावे"--धा।पा।] "रन्ज रागे" (धा।पा।९९९), "प्रच्छ ज्ञीप्सायाम्()" (धा।पा।१४१३),
"णिजिर्? शौचपोषणयोः" (धा।पा।१०९३),
"षिचिर्? क्षरणे" (धा।पा।१४३४),["षिच"--धा।पा।] "मुच्लृमोक्षणे" (धा।पा।१४३०), "भज सेवायाम्()" (धा।पा।९९८), "भन्जो आमर्दने" (धा।पा।१४५३), "भ्रस्ज पाके" (धा।पा।१४४४), "युज समाधौ" (धा।पा।११७७)--द्वयोरपि ग्रहणम्()। "रुजो भङ्गे" (धा।पा।१४१६), "षन्ज सङ्गे" (धा।पा।९८७), "टु मस्जो शुद्धौ" (धा।पा।१४१५)। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४), "भुजो कौटिल्य" (धा।पा।१४१७)--द्वरोरपि ग्रहणम्()। "ष्वञ्ज परिष्वङ्गे" (धा।पा।९७६)। कृतानुनासिकलोपस्य निर्देशो वृत्तभङ्गपरीहारार्थः। "सृज विसर्गे" (धा।पा।१४१४)। "मृजू शुद्धौ" (धा।पा।१०६६) आदादिकः। "मृज शौचालङ्कारयोः" (धा।पा।१८४८) ["मृजू"--धा।पा।] इति चौरादिकोप्यस्ति, सोऽपि यदा "आ धुषाद्वा" (धा।पा।१८०५) अनन्तरम्()) इति णिजनास्त#इ, तदा शक्य एव ग्रहीतुम्()। यदा त्वस्ति, तदाऽनेकाच्त्वादेवेट्प्रतिषेधाप्रसङ्गः।
"मृजिरयम्()" इत्यादिनप्रतिषेधार्थतां मृजेरिह निरस्यति। "अमागमोऽप्यस्य" इत्यादि। अनेनामागमार्थताम्()। "तदिह" इत्यादि। यत एव हि प्रयोजनद्वयं न सम्भवति, तत्समादिहास्य पाठे प्रयोजनं चिन्त्यम्()। तत्र केचिदाहुः--यद्यप्यमागमो न दृश्यते, तथाप्यसौ कत्र्तव्य एव अन्यथा ह्रस्य पाठोऽनर्थकः स्यात्()। न हि यन्न दृश्यते तेन न भवितव्यमेव, अन्यता हि "यथालक्षणमप्रयुक्तेषु" इत्येतद्वचनमप्रयुज्यमानं स्यात्()। अन्ये तु वर्णयन्ति--मृजेनिरुपपदात्(), क्विबन्ताद्विकारावयवविवक्षायां माजं इति "अनुदात्तादेरञ्()" (४।२।
४४) इत्यञ्? यथा स्यात्()--इत्येतत्? प्रयोजनमिति; एतच्चायुक्तम्(); एकाच्त्वाद्धि नित्यं मयटा भवितव्यम्()। तथा हि--"नित्यं वृद्धञरादिभ्यः"
४।३।१४२ इत्यत्र नित्यग्रहणं किमर्थम्(),
यावताऽऽरम्भसामथ्र्यादेव नित्यं भविष्यति? इति चोदेते,
इदमुक्तम्()--"एकाचो नित्यं मयटमिच्छन्तीति तदर्थमेतत्? क्रियते--त्वङ्मयं वाङ्मयम्()" इति। "केचित्()" इत्यादि।
केचित्? प्रयोजनमपश्यन्तो मृजेः स्थाने विजिं पठन्ति। किं करणमित्याह--"निजादिषु हि" इत्यादि।
"विजिर्? प्रथग्भावे" (धा।पा।१०९४) इति निजादिषु विजिः पठ()ते, स यस्मादनिडिष्यते तस्मान्भृजिमपनीय तस्य स्थाने विजिं पठन्ति।
कथं ज्ञायतेऽसावनिडिष्यते? इत्याह--"तथा च" इत्यादि। "तन्त्रान्तरे"["ग्रन्थान्तरे--इति पाठान्तरम्()] इति। आपिशलिष्याकरणे।
अथ "सुजिविजी" इत्यस्मिन्? पाठे "ओविजी भयचलनयोः" (धा।पा।
१२८९) इत्यस्य ग्रहणं कस्मान्न भवति? ईदित्त्वात्()। तद्ध्येवमर्थं क्रियते--"()आओदितो निष्ठायाम्()"
७।२।१४ इतीट्प्रतिषेधो यथा स्यात्()। यदि च तस्यापीह ग्रहणं स्यादनेनैव सिद्धत्वादीदित्त्वमनर्थकं स्यात्()।
"अवधीत्()" इति। "लुङि च"
२।४।४३ इति वाधादेशोऽदन्तः। स चानुदत्तस्यादेशः स्थानिवद्भावेनैव भवति। उपदेशेऽनुदात्त एकाच उपदेशो न भवतीति न भवति प्रतिषेधः।
कथं पुनरयमेकाज्भवति? इत्याह--"वृद्धिनिवृत्त्यर्थम्()" इत्यादि। यदि ह्रदन्तो वधिर्नोपदिश्येत, "अतो हलादेर्लघोः"
७।२।५ इति विकल्पेन वृद्धिः स्यात्()। अदन्ते तु सति न भवति, तत्र "येन च्यवधानमाश्रियम्। अदन्तत्वे तु सति वधेरकारलोपस्य पुर्वविधौ स्थानिवद्भावेनापि व्यवधानं भवति, न केवलं हलैव। याऽपि हलन्तलक्षणा वृद्धिः, साऽप्यदन्तत्वे सति न भवत्येव;अकारलोपस्य स्थानिवद्भावादहलन्तत्वात्()। तस्माद्()वृत्त्यर्थमदन्तो वधिरुपदिश्यते। ननु यद्यप्यदन्त उपदिश्यते,
तथापि स्थानिवद्भावेनैकाजिति व्यपदेशे सति भवितव्यमेव प्रतिषेधेन? "नतदस्ति; एवं ह्रेकाज्ग्रहणमनर्थकं स्यात्()।
तथा हि--जागृदरद्राचकात्प्रभृतीनामुदात्तत्वात्? नैकाज्ग्रहणं ते प्रयोजयन्ति। सनाद्यन्तानां धातूनामुपदेशत्वं नास्ति; लाक्षणिकत्वात्समुदायसय।
न चान्योऽनेकाज्? धातुरूपदेशेऽनुदात्तोऽस्ति य एकाज्ग्रहणं प्रयोजयति।
न चास्मिन्? व्यपदेशे कत्र्तव्ये स्थानिवद्भावेऽस्ति; अल्विधित्वात्()।
"इह च यता स्यात्()" इति। असत्युपदेशग्रहणे" एकाचो धातोरनुदात्तादिडागमो न भवतीत्येव सूत्रार्थः; एवञ्च लविष्यति, पविष्यतीत्यत्रेडागमो न स्यात्()। भवत्यत्र प्रत्ययस्वरे कृते शेषानुदात्तत्वे धातुरनुदात्तः। तथा च--कत्र्ता कटान्(), कर्त्तुमिच्छतीत्यत्र त्विडागमः स्यादेव; तृनि तुमुनि च कृते नित्स्वरेण धातोरुदात्तत्वात्()। उपदोशग्रहणे तु सति तेनाद्यावस्था विशेष्यत इति न भवत्येव दोषप्रसङ्गः। यद्यप्युत्तरकालं लुनातिपुनाती अनुदात्तौ, तथाप्युपदेशावस्थायामुदात्तावेव। तथा यद्यप्यत्तरकालं करोतिरुदात्तः, तथाप्युपदेशवस्थायामनुदात्त एव। अथ बिभिच्छब्दस्य प्रकृतेपाठो नास्ति, नाप्येकाच्त्वम्(); तथापि भिदेस्तूभयमिदमस्ति। "द्विष्प्रयोगो द्विर्वचनम्()" इत्ययमपि तत्र पक्ष आश्रितः, तेन भिदिरेव तत्र द्विरुच्यते,
तस्य चोभयविशेषणविशिष्टत्वात्? सिध्यत्येव प्रतिषेधः॥