पूर्वम्: ७।२।५०
अनन्तरम्: ७।२।५२
 
सूत्रम्
पूङश्च॥ ७।२।५१
काशिका-वृत्तिः
पूङश् च ७।२।५१

पूङश्च क्त्वानिष्ठयोर् वा इडागमो भवति। पूर्वा, पवित्वा। सोमो ऽतिपूतः, सोमो ऽतिपवितः। पूतवान्, पवितवान्। श्र्युकः किति ७।२।११ इति प्रतिषेधे प्राप्ते विकल्पो विधीयते।
न्यासः
पूङश्च। , ७।२।५१

उगन्तत्वात्? "श्रयुकः किति" ७।२।११ इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्()। "पवित्वा, पक्तिः, पवितवान्()" इति। "पूङः क्त्वा च" १।२।२२ इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। "पूङः" इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्()॥।
बाल-मनोरमा
पूङश्च ८५७, ७।२।५१

पूङश्च। क्त्वानिष्ठयोरिति। "क्लिशः क्त्वनिष्ठयो"रित्यतस्तदनुवृत्तेरिति भावः। इड्वेति। "स्वरतिसूती"त्यतो वाग्रहणस्य , "इण्निष्ठाया"मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः। "श्र्युकः" इति निषेधे प्राप्ते विकल्पोऽयम्।

तत्त्व-बोधिनी
पूङश्च ७०२, ७।२।५१

पूङश्च। "श्र्युकः किती"ति निषेधे प्राप्ते वचनम्।