पूर्वम्: ७।२।६८
अनन्तरम्: ७।२।७०
 
सूत्रम्
सनिंससनिवांसम्॥ ७।२।६९
काशिका-वृत्तिः
सनिंससनिवांसम् ७।२।६९

सनोतेः सनतेर् वा धातोः सनिंससनिवांसम् इति निपात्यते। अञ्चित्वाग्ने सनिंससनिवांसम्। इडागम एत्वाभ्यासलोपश्च निपात्यते। सनिङ्पूर्वातन्यत्र सेनिवांसम् इत्येव भवति। छन्दसि इदं निपातनं विज्ञायते। भाषायां सेनिवांसम् इति भवति।
न्यासः
सनिंससनिवांसम्?। , ७।२।६९

"सनोतेः" इति। "षणु दाने" (धा।पा।१४६४) इत्यस्य सनिंपूर्वस्य द्वितीयान्तस्योच्चारणेन नियता मानुपूर्वीमुपलक्षयति। यत्रैषानुपूर्वी नियता तत्रैव यथा स्यात्()। इयं चानुपूर्वीं छन्दस्यैव नियतेति तद्विषयमेवैतन्निपानं विज्ञायते। अत एव वृत्तिकृता छान्दसः प्रयोगो दर्शितः। "सेनिवांसम्()" इति। पूर्ववदेत्त्वाभ्याम्यासलोपौ। "वस्वेका जाद्()धसाम्()" ७।२।६७ इतीट्()॥