पूर्वम्: ७।२।६७
अनन्तरम्: ७।२।६९
 
सूत्रम्
विभाषा गमहनविदविशाम्॥ ७।२।६८
काशिका-वृत्तिः
विभाषा गमहनविदविशाम् ७।२।६८

गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम जग्मिवान्, जगन्वान्। मो नो धातोः ८।२।६४ इति नकारः। हन जघ्निवान्, जघन्वान्। विद विविदिवान्, विविद्वान्। विश विविशिवान्, विविश्वान्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति। दृशेश्चेति वक्तव्यम्। ददृशिवान्, ददृश्वान्।
न्यासः
विभाषा गमहनविदविशाम्?। , ७।२।६८

पूर्वस्मान्नियमाद्गमादीनामिङ्? न भवतीति विभाषेयमारभ्यते। "जग्मिवान्()" इति। परत्वादिट्? ततः "गमहन" ६।४।९८ इत्यादिनोपधालोपः, ततो द्विर्वचनम्()। "जघन्वानिति, जध्निवान" इति। "अभ्यासाच्च" ७।३।५५ इति कुत्वम्()--हकारस्य घकारः। "लाभार्थस्य" इति। "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य। "न ज्ञानार्थस्य" इति। "विद ज्ञाने" (धा।पा।१०६४) इत्यस्य। "विद सत्तायाम्()" (धा।पा।११७१), "विद विचारणे" (धा।पा।१४५०)--इत्येतयोश्चात्मनेपदित्वादात्मनेपदेषु क्वसुर्न भवतीत्यनुपन्यासः। "दृशेश्च" इत्यादि। "वृशिर्? प्रेक्षणे" (धा।पा।९८८) इत्यस्माच्च परे क्वसोरिडागमो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषा" इति योगविभागः क्रियते, तेन दृशेरपि भविष्यतीति। न चैवं सति "गमहनविदविशाम्()" इत्यस्यानर्थक्यम्; पूर्वयोगस्यासर्ववषयत्वसूचनात्()। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥
तत्त्व-बोधिनी
विभाषा गमहनविदविशाम् ७४२, ७।२।६८

जग्मिवानित्यादि। इट्पक्षे "गमहने"त्युपधालोपः।