पूर्वम्: ७।३।४२
अनन्तरम्: ७।३।४४
 
सूत्रम्
रुहः पोऽन्यतरस्याम्॥ ७।३।४३
काशिका-वृत्तिः
रुहः पो ऽन्यतरस्याम् ७।३।४३

रुहेः अङ्गस्य अन्यतरस्यां पकारादेशो भवति णौ परतः। व्रीहीन् रोपयति, व्रीहीन् रोहयति।
न्यासः
रुहः पोऽन्यतरस्याम्?। , ७।३।४३

"रोपयति" इति। "रुह जन्मनि प्रादुर्भावे च" (धा।पा।८५९)। किमर्थं पुनरिदमुच्यते, यावता दिवादिषु "रुप लुप विमोहने" (धा।पा।१२३६,१२३७) इति रुपिः पठ()ते, तस्य रोपयतीति भविष्यती, रुहेस्तु रोहयतीति? जन्मार्थेऽपि रोपयतीति प्रयोगो यथा स्यात्(); अन्यथा हि विमोहनार्थस्यैव स्यात्()। अनेकार्थत्वाद्धातूनां रुपिर्जन्मनि वर्त्तिष्यत इति चेत्()? नैतदस्ति; अनेकार्था हि धातवः, न तु सर्वार्थाः। न हि रुप्यतीत्युक्ते अन्मार्थः प्रातीयते, किं तर्हि? विमोहनार्थ एव॥
बाल-मनोरमा
रुहः पोऽन्यतरस्याम् ४२७, ७।३।४३

रुहः पो। णावितिशेषपूरणम्।