पूर्वम्: ७।३।५६
अनन्तरम्: ७।३।५८
 
सूत्रम्
सन्लिटोर्जेः॥ ७।३।५७
काशिका-वृत्तिः
सन्लिटोर् जेः ७।३।५७

सनि लिटि च प्रत्यये जेः अङ्गस्य यो ऽभ्यासः तस्मादुत्तरस्य कवर्गाऽदेशो भवति। जिगीषति। जिगाय। सन्लिटोः इति किम्? जेजीयते। जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात् तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति।
न्यासः
सन्लिटोर्जेः। , ७।३।५७

"जिगीषति जिगाय" इति। "आदेः परस्य" १।१।५३ इति परस्यादेर्जकारस्य कुत्वम्(), "ज्या वयोहानौ" (धा।पा।१४९९) इत्यसय लिट्()। ग्रहिज्यादिसूत्रेण ६।१।१६ सम्प्रसारणे कृते परपूर्वत्वे च जिरत्येष रपविशेषो भवति। अतस्तस्यापि कुत्वं प्राप्नोति, जिग्रहणेन ग्रहणात्()। न च शक्यते वक्तुम्(), "हलः" ६।४।२ इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति, एकदेशविकृतस्यानन्यत्वात्(); (व्या।प।१६) अन्यथा हि जिगीषतीत्यत्रापि "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति। अथ वा--प्रागेव दीर्घात्? परत्वात्? कुत्वेन भवितव्यमिति यश्चोदयेत्(), तं प्रत्याह--"जिनातेः" इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) "जि जये" (धा।पा।५६१) इति यः पठ()ते, तस्यैवेदं प्रतिपदोक्तस्य ग्रहणम्(), न जिनातेः। सम्प्रसारणे कृते यज्जीरूपं सम्पदयते, तस्य लाक्षणिकत्वात्()। "जिज्यतुः, जिज्युः" इति। "लिट्, अतुस्(), उस्(), "एरनेकाचोऽसंयोगपूर्वस्य" ६।४।८२ इति यणादेशः॥
तत्त्व-बोधिनी
संल्लिटोर्जेः १४४, ७।३।५७

सँल्लिटोर्जेः। शंल्लिण्निमित्त इति। यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदा "येन नाव्यवधान" न्यायेन प्रकृतिव्यवधानं सोठव्यमेव, परं तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात्, न च तन्माधवग्रन्थसंमतमिति भावः।