हिनोतेर् हकरस्य अभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि। प्रजिघीषति। प्रजेघीयते। प्रजिघाय। अचङि इति किम्? प्राजीहयत् दूतम्। अचङि इति शक्यमकर्तुम्। कथम्? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्र अभ्यासनिमित्ते प्रत्यये हेरङ्गस्य इति विज्ञायमने प्राप्तिरेव न अस्ति? तत् क्रियते ज्ञापकार्थम्। एतत् ज्ञाप्यते, हेरचङि इति चङो ऽन्यत्र हेर्ण्य धिकस्य अपि कुत्वं भवति इति। तेन प्रजिघाययिषति इति सिद्धं भवति।
"प्रजिघीषति" इति। "हि गतौ" (धा।पा।१२५७) सन्(), पूर्ववद्दीर्घत्वम्()। "प्रजेधीयते" इति। "अकृत्सार्वधातुकयोः"
७।४।२५ इति दीर्घः, द्विर्वचनम्(), "गुणो यङ्लकोः"
७।४।७२ इत्यभ्यासस्य गुणः। "प्रजिघाय" इति। णल्(), वृद्ध्यायादेशो।
"प्राचीहयत्()" इति। हेतुमण्णिच, "णिश्रि"
३।१।४८ इत्यादिना चङादेशः, "णौ चङ्युपधायाः"
७।४।१ इति ह्यस्वः; "चङि"
६।१।११ इति द्विर्वचनम्()। तच्च "णौ कृतं स्थानिवद्भवति" (चां।प।२१) इति हिशब्दसय "दीर्घो लघोः"
७।४।९४ इति दीर्घः।
"चङ्यम्यासनिमित्ते" इत्यादि।
प्राजीहयदित्यत्र चङ्यभ्यासनिमित्ते परतो यो णिच्? तस्मिन्? हिनोतिरङ्गम्(), न तु तस्मिन्नेव चङ्यभ्यासनिमित्ते; इह सूत्रेऽब्यासाधिकारात्()। अभ्यासेनाक्षिप्तेऽऽभ्यासनिमित्ते प्रत्यये यदङ्गं हिनोतिरित्येवं विज्ञायते,
एवञ्च विज्ञायमाने कः प्रसङ्गो यो व्यधिकस्य चङि स्यात्()? नैवं प्राप्नोतीस्यतो नार्थोऽचङीति प्रतिषेधेन। एवं प्रत्याख्याय चङ्ग्रहणम्(), तस्य प्रयोजनमाह--"तत्क्रियते" इत्यादि।
किं पुनरनेन ज्ञाप्यते? इत्याह--"हेरचङि" इत्यादि। "हेरचङि" इत्यादि। "हेरचङि" इत्यनेन चङोऽन्यत्र सनादौ ण्यधिकस्यापि हिनोतेः कुत्वं भवतीत्येषोऽर्थो ज्ञाप्यते। "तेन" इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। "प्रजिघाययिषति" इति।
प्रहाययितुमिच्छतीति ण्यन्तात्? सन्()॥
हेरचङि। "चजोः" इति सूत्रात्कुग्रहणमनुवर्तते। "अभ्यासाच्चे"त्यतोऽभ्यासादिति। "हो हन्ते"रित्यतो ह इति षष्ठ()न्तमनुवर्तते। तदाह-- अभ्यासात्परस्येति। जिघायेति। जिघ्यतुः। जिघयिथ-- जिघेथ। जिघ्यिव। आप्लृ व्याप्तौ। अनिट्। आप्नुवन्तीति। संयोगपूर्वकत्वादेव "उतश्च प्रत्यया"दिति हेर्न लुक्। शक्लृ शक्ताविति। शक्नोति। शशाक। शेकतुः। शशक्थः शेकिथ। शेकिव।शक्ता। शक्ष्यति। अशकदिति। लृदित्त्वादङ्। राध साध संसिद्धौ। अनिटौ। दीर्घाकारवत्त्वात् "अत एकह"लिकत्यप्राप्तावाह--