पूर्वम्: ७।४।१८
अनन्तरम्: ७।४।२०
 
सूत्रम्
पतः पुम्॥ ७।४।१९
काशिका-वृत्तिः
पतः पुम् ७।४।१९

पतेरङ्गस्य पुमागमो भवति अङि परतः। अपप्तत्, अपप्तताम्, अपप्तन्।
न्यासः
पतः पुम्?। , ७।४।१९

"अपप्तत्()" इति। "शल हुल पत्लृ गतौ (धा।पा।८४३,८४४,८४५), पुषादिनाङ। मकारो देशविध्यर्थः॥
तत्त्व-बोधिनी
पतः पुम् १६५, ७।४।१९

पतः पुम्। मित्त्वादन्त्यादचः परः। अक्वथीदिति। एदित्त्वान्न वृद्धिः। एवम्-- अपथीत्। अमथीदित्यत्रापि। टुवम्। केचिदमुमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति , तत्तु वामनेन विरुध्यते। तेन हि "आदितश्चे"ति चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य "वान्त" इत्यत्र इडभावः साधितः। उदित्त्वे तु "यस्य विभाषे"त्येनेनैव "वान्त" इति सिद्धेस्तदसङ्गतं स्यात्। एवं च क्त्वाप्रत्यये वमित्वेत्येव साधु। निपातनादिति। अन्यथा गुणे सति उद्गरण इति स्यात्। यद्यपि अर्थनिर्देश आधुनिकस्तथापि पृषोदरादित्वमित्यत्रैव तात्पर्यं बोध्यत्। इत्याद्यप्युदाह्मतमिति। "वेमुश्च केचिद्रुधिर" मित्यादिप्रयोगानुरोधेन तथोदाह्मतमित्याहुः। ननु वादित्वेन निषेधादेत्त्वाब्यासलोपौ कथमिह स्यातामिति चेत्। अत्राहुः-- "न शसददवादिगुणाना"मिति सूत्रितेऽपि वेत्यकारान्तसङ्घातग्रहणेनेष्टसिद्धेरादिग्रहणमौपदेशिकप्रतिपत्त्यर्थम्। "एकान्ता अनुबन्धा" इति च स्वीक्रियते। तथा च नायं वादिः, किं तु ट्वादिरिति। अन्ये तु वमेरादौ "लोपो व्यो"रिति लोपेन यकारः प्रश्लिष्यते। ततश्चोपदेशे वादित्वाऽभावान्निषेधो नेत्याहुः। भ्रमु चलने। मण्डलाकारेण चलनमेव धात्वर्थो, न तु चलनमात्रम्। तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः। "शुकिं()त पश्यन् रजतमिति भ्रमती"ति प्रयोगात्। "उदितो वे" ति क्त्वायां वेट्। भ्रमित्वा। भ्रान्त्वा। "यस्य विभाषे"ति निष्ठायां नेट्। भ्रान्तः। नन्वस्य ज्वलादिगणे पाठः किमर्थः। न चात्र णप्रत्ययार्थमेव पाठ इति वाच्यं, पचादेराकृतिगणत्वादच्प्रत्ययेनाऽपि "भ्रम" इति रूपसिद्धेः, "नोदात्तोपदेशस्ये"ति वृद्धिनिषेधाण्णप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत्। अत्राहुः- यदि पचादित्वादच्प्रत्ययः स्यात्तर्हि "अभ्रम" इत्यत्र "अच्कावशक्तौ" इति नञः परमन्तोदात्तं स्यात्। णप्रत्यये त्विह "तत्पुरुषे तुल्यार्थे" त्याद्युदात्तमेव भवतीति।