पूर्वम्: ७।४।३१
अनन्तरम्: ७।४।३३
 
सूत्रम्
अस्य च्वौ॥ ७।४।३२
काशिका-वृत्तिः
अस्य च्वौ ७।४।३२

ई इति वर्तते। अचर्णान्तस्य अङ्गस्य च्वौ परतः ईकारादेशो भवति। शुक्लीभवति। शुक्लीस्यात्। खट्वीकरोति। खट्वीस्यात्।
न्यासः
अस्य च्वौ। , ७।४।३२

"च्वौ च" ७।४।२६ इति दीर्घस्यापवादः॥
बाल-मनोरमा
अस्य च्वौ , ७।४।३२

अस्य च्वौ। ईत्स्यादिति। "ई ध्राध्मो"रित्यतस्तनुवृत्तेरिति भावः। वेर्लोप इति। "वैरपृक्तस्ये"त्यनेन"ति शेषः। च्व्यन्तत्वादव्ययत्वमिति। "ऊर्यादिच्विडाचश्चेति"निपातत्वात्स्वरादिनिपातमित्यव्ययत्वमित्यर्थः। "तद्धितश्चासर्वविभक्ति"रित्यत्र "शस्प्रभृतयः प्राक्समासान्तेभ्यः" इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित्। कृञ्योगे उदाहरति--कृष्ण इति। वस्तुतोऽकृष्णः सन्वेषादिना कृष्णभावे प्राप्नोतीत्यर्थः। तं करोतीति। अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः। कृष्णीकरोतीति। अत्र वस्तुतोऽकृष्णो नटः प्रकृतिभूतः। स तावत्कृष्णभावं विकारं प्राप्नुवन्सम्पद्यमानत्वात्सम्पद्यकर्तां भवतीति तत्राऽभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः। तस्माच्च्विप्रत्ययः। चकार इत्, उकार उच्चारणार्थः। तस्मिन्परे अकारस्य ईत्त्वम्। "वेरपृक्तस्ये"ति वकारलोपः। "कृष्णी"ति ईकारान्तमव्ययम्। ब्राहृईभवतीति। अब्राहृ ब्राहृ संपद्यमानं भवतीत्यर्थः। ब्राहृन्शब्दाच्च्विः। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः। ईत्वमिति भावः। अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिर्नतु सुबन्तादिति न#इयमः। अतो न च्वेः प्रातिपदिकादुत्पत्तिः,किंतु सुबन्तादेवेति बोध्यम्। अत एव अगौर्गोः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्य "एङः पदान्ता"दिति पररूपमुदाह्मतं भाष्ये सङ्गच्छत इत्यलम्। गङ्गी स्यादिति। अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः। "अस्य च्वौ" इति ईत्त्वम्। दोषाभूतमहरिति। दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते। इह तु रात्रिरित्यर्थः वत्र्तते। अदोषाभूतमहो बहुलमेघावरणान्धकाराद्दोषाभूतमित्यर्थः। दिवाभूतारात्रिरिति। दिवेत्याकारान्तमव्ययमहनीत्यर्थे इह तु अहरित्यर्थे वर्तते। चन्द्रिकातिशयवशादहर्भूतेत्यर्थः। ननु "अव्ययस्य च्वावीत्त्वं ने"ति वार्तिकम् "अस्य च्वौ" इति सूत्रभाष्ये न दृश्यत इत्यत आह--एतच्चेति।

तत्त्व-बोधिनी
अस्य च्वौ १५७६, ७।४।३२

सम्पद्यकर्तरीति। सम्पद्यश्चासौकर्ता चेति विग्रहः। "पाघ्राध्माधेट्दृशः शः"इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति। दिवादित्वाच्छ्यनिति हरदत्तः। वक्तव्यमिति। वृत्तिकारस्तु "अभूततद्भावे"इति सूत्रमध्ये प्चिक्षेप। भ्रान्तत्वादिति।

अव्ययस्य च्वावीत्वं नेति वाच्यम्। च्व्यन्तत्वादिति। तस्य निपातत्वात् "स्वारादिनिपातमव्यय"मित्यनेनेत्यर्थः।