पूर्वम्: ७।४।३३
अनन्तरम्: ७।४।३५
 
सूत्रम्
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु॥ ७।४।३४
काशिका-वृत्तिः
अशनायौदन्यधानाया बुभुक्षापिपासागर्धेषु ७।४।३४

अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेषु अर्थेषु। अशनाय इत्यशनशब्दस्य आत्वं क्यचि निपात्यते। अशनायति इति भवति बुभुक्षा चेत्। अशनीयति इत्येव अन्यत्र। उदन्य इति वदकशब्दस्य उदन्नादेशो निपात्यते। उदन्यति इति भवति पिपासा चेत्। उदकीयति इत्येव अन्यत्र। धनाय इति धनशब्दस्य आत्वं निपात्यते। धनायति इति भवति गर्धः चेत्। धनीयति इत्येव अन्यत्र।
न्यासः
अशनायोदन्यधनायाबुभुक्षापिपासागर्थैषु। , ७।४।३४

भोक्तुमिच्छा बुभुक्षा। पातुमिच्छा पिपासा। गर्धनं गर्धः। अभिकाङ्क्षेत्यर्थः॥
बाल-मनोरमा
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु ४८६, ७।४।३४

अशनायोदन्य। अशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः। क्यजन्ता इति। एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः। भोक्तुमिच्छा बुभुक्षा। पातुमिच्छा पिपासा। गर्द्धः अभिकाङ्क्षा। अशनायतीति। अश्यते यत्तदशनम् = अन्नं, तद्भोक्तुमिच्छतीत्यर्थः। "क्यचि चे"ति ईत्त्वाऽभावो निपात्यते। "अकृत्सार्वे"ति दीर्घः। उदन्यतीति। उदकं पातुमिच्छतीत्यर्थः। उदकशब्दस्य उदन्नादेशो निपात्यते, नलोपाऽबावश्च। धनायतीति। जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः। "क्यचि चे"ति ईत्त्वाऽभावो निपात्यते। अशनीयतीति। अशनम् = अन्नं, तत्सङ्ग्रहीतुमिच्छति वै()आदेवाद्यर्थमित्यर्थः। उदकीयतीति। सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः। धनीयतीति। दरिद्रः सन् जीवनाय धनमिच्छतीत्यर्थः।

तत्त्व-बोधिनी
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु ४१७, ७।४।३४

अशनायोदन्य। क्यजन्ता इति। उदकशब्दस्योदन्भावोऽन्ययोर्दीर्घ इत्यपि ज्ञेयम्। इह यः सद्यएव भोक्तुमशनमिच्छति, यश्च पातुमुदकं, यश्च धने सत्यपि पुनर्धनं-- तत्रोदाहरणानि। यस्तु कालान्तरोपयोगार्थमशनमिच्छति, यश्च स्नातुमुदकं,यश्च दरिद्रः सन् धनमिच्छति तत्र प्रत्युदाहरणानि। नु "उदन्या तु पिपासा तृ"डिति निघण्टौ परस्परसामानाधिकरण्यं न स्यात्, उदन्याशब्दस्य उदकेच्छावाचित्वादिति चेत्। अत्राहुः-- "अशनायती"त्यादिषु अविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः, तथा च नोक्तदोष इति।