पूर्वम्: ७।४।३७
अनन्तरम्: ७।४।३९
 
सूत्रम्
देवसुम्नयोर्यजुषि काठके॥ ७।४।३८
काशिका-वृत्तिः
देवसुम्नयोर् यजुषि काठके ७।४।३८

देव सुम्न इत्येतयोः क्यचि परतः आकारादेशो भवति काठके यजुषि। देवायते यजमानाय। सुम्नायनतो हवामहे। यजुषि इति किम्? देवाञ् जिगाति सुम्नयुः। काठके इति किम्? सुम्नयुरिदमसीदमसि।
न्यासः
देवसुम्नयोर्यजुषि काठके। , ७।४।३८

"न च्छन्दसि" ७।४।३५ इति प्रतिषेधे प्राप्ते देवसुम्नयोरिदमारभ्यत आद्वचनम्()। "काठके" इति। यजुष एवैतद्विशेषणम्()। कठस्येदं यजुः काठकम्()--"गोत्रचरणाद्वञ्()" ४।३।१२६