शा छा इत्येतयोः अन्यतरस्याम् इकारादेशो भवति तकारादौ किति। शा निशितम्, निशातम्। निशितवान्, निशातवान्। छा अवच्छितम्, अवच्छातम्। अवच्छितवान्, अवच्छातवान्। श्यतेरित्त्वं व्रते नित्यम् इति वक्तव्यम्। शंशितो ब्रह्मणः। संशितव्रतः इत्यर्थः। व्यवस्थितविभाषविज्ञानात् सिद्धम्। देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।
"शो तनूकरणे" (धा।पा।११४५), "छो छेदने" (धा।पा।११४६)।
"श्यतेरित्त्वं व्रते नित्यम्()" इति। ब्रात इति नोत्तरपदं गृह्रते,
किं तर्हि? विषयः। व्रतविषये श्यतेर्नित्यमित्त्वं भवति। "संशितो ब्राआहृणः" इति। आचारविशेषे व्रताख्ये यत्नवानेवोच्यते संशितव्रत इति।
संशितं यत्नेन सम्यक्? प्रतिपादितं व्रतं यस्य येन वा स एवमुच्यते।
ननु च व्रतविषये विधौयमानेनेत्त्वेनैव व्रतस्य द्योतितत्वाद्()व्रतशब्दस्य प्रयोगो न प्राप्नोति? नैष दोषः; अन्यत्र हीत्वं भवत्येव, व्रते तु नित्यमाख्यायते, सोऽयं सामान्यशब्दो भवति। अत्र विशेषार्थो व्रतश्ब्दः प्रयुज्यते। परनिपातस्त्वाहितग्न्यादित्वाद्द्रष्टव्यः।
"व्यवस्थितविभाषाविज्ञानात्? सिद्धम्? इति।
एतदागमवाक्येन द्रढयितुमाह--"देवत्रातः" इत्यादि।
"त्रैङ्? पालने" (धा।पा।९६५), क्तः। "नुदविदोन्दत्राघ्रह्यीभ्योऽन्यतरस्याम्()"
८।२।५६ इति संज्ञाविषये नत्वं न भवत्येव--देवैस्त्रातो देवत्रातः, देवशब्दोऽत्र संज्ञोपलक्षणार्थः। केवलस्यापि त्रातशब्दस्य संज्ञायां न नत्वं प्रतिपद्यते। एवं सज्ञाया अन्यत्रोभयं भवति--त्राणः, प्रात इति। "गलः" इति। गिरतेः पचाद्यच्()। "ग्रो यङि"
८।३।२०, "अचि विभाषा"
८।२।२१ इति प्राण्यङ्गे नित्यं लत्वम्()--गल इति। विषे तु भवत्येव--गर इति। "ग्राहः" इति। ग्राहेः "विभाषा ग्रहः"
३।१।१४३ इति णप्रत्ययः। जलचरे नक्रे नित्यं णप्रत्ययो भवति--ग्राह इति। आदित्यसोमादिषु पचाद्यज्भवत्येव--ग्रह इति। "इतियोगे च सद्विधिर्न भवति" इति। वर्षतीति धावति, हन्तीति पलायते इति--"लक्षमहेत्वोः क्रियायाः"
३।२।१२३ इति सत्संज्ञकौ शतृशानचावितियोगे न भवत एव, व्यवस्थितविभाषया। तत्र "नन्वोर्विभाषा" (३।२।
१२१) इत्यतो विभाषाग्रहणमनुवत्र्तते--अर्जयन्? वसति, अधीयानो वसति। तत्रासतीति योगे नित्यावेव तौ भवतः। ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वाद्वर्षतीति, हन्तीत्येवमादौ सद्विधिर्न भविष्यति,
यत्र त्वितिशब्दो न प्रयुज्यते तत्र भवत्येव--अर्जयन्? वसतीत्यादौ, तदत्र विभाषाधिकारनन्तरेणापि विभाषा लभ्यत एव; अतो विभाषाग्रहणं नानुवर्त्त्यमेव,
तस्मादनुदाहरणमेतद्()व्यवस्थितविभाषायाः? इदं तर्ह्रुदाहरणम्()--करिष्यामीति व्रजतीति।
अत्र "लृट्? शेषे च" (३।३।
१३) इति चकारात्? क्रियायामुपपदे क्रियार्थायां लृट्(), तस्य लृटः सद्विधिर्न भविष्यतीति; व्यवस्थितविभाषया। अप्रथमासमानाधिकरणेनेतियोगादन्यत्र नित्यं भवति--करिष्यन्तं पश्येति,
प्रथमासमानाधिकरणे तु विकल्पः--ब्राआहृणः करिष्यन्? ब्राआहृणः करिष्यतीति।
"मिथः" इत्यादि। मिथ इति सहभावेन।
देवत्रातगलग्राहादयस्त्राणगरग्रहादिभिः सहैकस्मिन्? विषये विकल्पेन नान्वाख्यायन्त इत्यर्थः। "गवाक्षः" इति। "सर्वत्र विभाषा गोः" (६।१।
१२२) इत्यनुवत्र्तमाने "अवङ्? स्फोटायनस्य" (६।१।
१२३) इति वातायने नित्यमवङ्? भवति, प्राण्यङ्गो तु गोऽक्षमित्यत्र न भवति; अन्यत्रोभयम्()--गवाक्षम्(), गोऽक्षमिति। "संशितव्रतः" इति। व्रते नितयमित्त्वम्()। अन्यत्र विकल्पेन--निशितम्(), निशातं शस्त्रम्()। तीक्ष्णमित्यर्थः।
तदेतत्? सर्वं व्यवस्थितविभाषया लभ्यते। क्वचिद्विधिरेव,
क्वचित्? प्रतिषेध एव, क्वचिदुभयमपीत्येवंविधा विविधार्थे स्थितां विभाषा व्यवस्थितविभाषा। एतच्च विविधमवस्थानमाकृतौ पदार्थे वेदितव्यम्()। तत्र हि सर्व लक्ष्यराशिमेकीकृत्याभिसंक्षिप्य तदुभयमुपदिश्यते। विधिः प्रतिषेधश्च जातौ पदार्थ उभयमपि भवतीत्येतावतोऽर्थस्य प्रतिपादने शास्त्रस्य व्यापारः। यस्तु क्वचिदर्थे विधिरेव,
क्विचित्? प्रतिषेध एव, क्वचिदुभयमित्यसङ्करेण व्यवस्थानम्(), एतच्चाविच्छिन्नाचार्यपारम्पर्योपदेशाल्लभ्यते॥