पूर्वम्: ७।४।६८
अनन्तरम्: ७।४।७०
 
सूत्रम्
दीर्घ इणः किति॥ ७।४।६९
काशिका-वृत्तिः
दीर्घ इणः किति ७।४।६९

इणो ऽङ्गस्य यो ऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः। ईयतुः, ईयुः। इणो यण् ६।४।८१ इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम्। किति इति किम्? इयाय। इययिथ।
न्यासः
दीर्घ इणः किति। , ७।४।६९

इणो ह्यस्वस्यैव श्रवणे प्राप्ते दीर्घत्वं विधीयते। "ईयतुः ईयुः" इति। ननु च परत्वात्? "इणो यण्()" (६।४।८१) इति यणादेशे सत्यनच्कत्वात्? द्विर्वचनं न प्राप्नोतीत्यत आह--"इणो यण्()" इत्यादि। स्थानिवद्भावस्तु "द्विर्वचनेऽचि" १।१।५८ इत्यनन। स च नियतकाले द्विर्वचन एव कत्र्तव्ये कृते च तस्मिन्नादेशरूप एवावतिष्ठते। "इयाय, इययिथ" इति। णलि थलि चेति यथाक्रमं वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद्()द्विर्वचनमिकारः, तस्य "अभ्यासस्यासवर्णे, ६।४।७८ इतीयङ्()॥
बाल-मनोरमा
दीर्घ इणः किति २८७, ७।४।६९

दीर्घ इणः। "अत्र लोपः" इत्यतोऽभ्यासस्येति, "व्यथो लिटीत्यतो लिटीति चानुवर्तते। तदाह--इणोऽभ्यासस्येति। ईयतुरिति। भारद्वाजनियमात्ळि वडिति मत्वा आह-- इययिथ इयेथेति। इयथुः ईय। इयाय इयय ईयिव ईयिम। एता। एष्यति। एतु--इतात् इताम् यन्तु। इहि--इतात् इतम् इत। अयानि अयाव अयाम। ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः। आयन्निति। झेरन्तादेसे इकारलोपे इ--अन् इति स्थिते "इणो य"णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः। ऐः ऐतम् ऐत। आयम् ऐव ऐम। विधिलिङ्याह-- इयादिति। इयाताम्। इयुरित्यादि। आशीर्लिङ्याह-- ईयादिति। "अकृत्सार्वधातुकयो"रिति दीर्घ इति भावः। ईयास्तामित्यादि।

तत्त्व-बोधिनी
दीर्घ इणः किति २४९, ७।४।६९

दीर्घ इणः किति। "अत्र लोपोऽभ्यासस्ये"त्यतोऽभ्यासस्येत्यनुवर्तते। "व्यथो लिटीत्यतो लटीति च। किति किम्?। इयाय। अत्र वदन्ति--- इह दीर्घे कृतेऽपि "अभ्यासस्याऽसवर्णे इतीयङा रूपसिद्धेः कितीति व्यर्थम्। न च दीर्घस्येयङि दीर्घविधानं व्यर्थमिति वाच्यम्, ईयतुः ईयरित्यत्रि "वार्णादाङ्गं बलीयः" इति यणि कृते दीर्घविधेरावश्यकत्वात्। किंच लिटीत्यनुवर्तनमपीह व्यर्थमेव, व्यावर्त्त्याऽभावादिति। एता। एष्यति। एतु। इतात्। इताम्। यन्तु। इहि। उत्तमे तु अयानि। अयाव। अयाम। लङ्मध्यमे-ऐः। ऐतम्। ऐत। उत्तमे तु आयम्। ऐव। ऐम। ईयादिति। "अकृत्सार्वे"ति दीर्घः।