पूर्वम्: ७।४।७३
अनन्तरम्: ७।४।७५
 
सूत्रम्
ससूवेति निगमे॥ ७।४।७४
काशिका-वृत्तिः
ससूवेति निगमे ७।४।७४

ससूव इति निपात्यते। सूतेर् लिटि परस्मैपदं वुगागमः अभ्यासस्य च अत्वं निपात्यते। ससूव स्थाविरं विपश्चिताम्। सुषुवे इति भाषायाम्।
न्यासः
ससूवेति निगमे। , ७।४।७४

"सूतेः" इति। "षूङ्? प्राणिगर्भविमोचने" (धा।पा।१०३१)--इत्येतस्य। "सुषुवे" इति। ङित्त्वादात्मनेपदम्(); उवङ्()। इतिकरणमेवम्प्रकाराणामन्येषामुपसङग्रहार्थम्()। तेन जाग्रमः, अदर्शमेत्यादि सिद्धं भवति। जाग्रम इति जागत्र्तेरग्निपात्यते। अदर्शमेति लङि दृशेः पश्यादेशाभावः। जागृम्(), अपश्यामेति भाषायामृ()। दाधर्त्त्यादिषु ससूवग्रहयणं न कृतम्(); वैचित्र्यार्थम्()॥