सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तम् अनुदात्तम् भवति। यत्काष्ठं पचति। यत्काष्ठं प्रपचति। यद्दारुणं पचति। यद् दारुणं प्रपचति। तिङ्ङतिङः
८।१।२८ इति निघातस्य, निपातैर् यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर् विधानम्। सगतिग्रहणाच् च गतिरपि निहन्यते। गतिग्रहणे च अत्र उपसर्गग्रहणम् इष्यते। इह न भवति, यत् काष्ठं शुक्लीकरोति। यत् काष्ठं कृष्णीकरोति।
"सगतिग्रहणाच्च गतिरपि निहन्यते" इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। "गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते" इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्()। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्()॥