पूर्वम्: ८।१।६९
अनन्तरम्: ८।१।७१
 
सूत्रम्
गतिर्गतौ॥ ८।१।७०
काशिका-वृत्तिः
गतिर् गतौ ८।१।७०

गतिः गतौ परतः अनुदात्तो भवति। अभ्युद्धरति। समुदानयति। अभिसम्पर्याहरति। गतिः इति किम्? देवदत्तः प्रपचति। गतौ इति किम्? आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। याहि इत्येतत् प्रति क्रियायोगादाङित्येष गतिः, तस्य गतौ इत्येतस्मिन् न सति गतिः इत्यनाश्रितपरनिमित्तकम् अनुदात्तत्वं स्यात्।
न्यासः
गतिर्गतौ। , ८।१।७०

"अभ्युद्धरति" इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। "समुदानयति" इति। अत्रापि "निपाता आद्युदात्ताः" (फि।सू।४।८०), "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति। कथं पुनरत्राह--समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्? (जै।प।वृ।९९), न चोच्छब्दस्य क्रियावाचित्वम्()? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्()। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्रुद्धरतीति()] ह्रुत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति। किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्(), तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा। "देवदत्तः प्रपचति" इति। देवैर्दासीष्टेति "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इति क्तः; "दो दद्()धोः" ७।४।४६ इति ददादेशः। "तृतीया कर्मणि" ६।२।४८ इत्याद्युदात्तत्वे प्राप्ते "कारकाद्दत्तश्रुतयोरेवाशिषि" ६।२।१४७ इति देवदत्तशब्दोऽन्तोदात्तः। "आमन्द्रैः" इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति। तस्मिन्? परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे "निपाता आद्युदात्ताः" (फि।सू।४।८०) "उपसर्गश्चाभिवर्जम्()" (फि सू ४।८१) इत्याद्युदात्तत्वमेव भवति। कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः, मन्दरशब्दस्याक्रियावाचित्वात्()? इत्यत आह--"याहीत्येतत्? प्रति क्रियायोगादाङित्वेष गतिः" इति। सत्यपि व्यवधाने व्यवहिताश्च १।४।८१ इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्(), यद्यपि याहीत्येतत्? प्रत्याङो गतित्वम्(), तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत, तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह--"तस्य" इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य "अनाश्रितपनिमित्तकम्()" इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्()। न ह्रसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्य()स्मस्तु सति न भवत्येष दोषः; गतेः परनिमित्तस्याश्रयणात्? तस्य चेहाभावात्()॥