पूर्वम्: ६।२।४७
अनन्तरम्: ६।२।४९
 
सूत्रम्
तृतीया कर्मणि॥ ६।२।४८
काशिका-वृत्तिः
तृतीया कर्मणि ६।२।४८

कर्मवाचिनि क्तान्ते उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अहिहतः, अहिहतः। वज्रहतः। महाराजहतः। नखनिर्भिन्ना। दात्रलूना। आङि श्रिहनिभ्यां ह्रस्वश्च इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तम् इच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजश्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनखेति नखशब्दो निपातितः। तेन नञ्सुभ्याम् ६।२।१७१ इत्यन्तोदात्तः। दात्रशब्दो दाम्नीशस इति ष्ट्रन्प्रत्ययान्तः। कर्मणि इति किम्? रथेन यातः रथयातः। गत्यर्थत्वात् कर्तरि क्तः।
न्यासः
तृतीया कर्मणि। , ६।२।४८

"तत्पुरुषे तुल्यार्थ" ६।२।२ इत्येव सिद्धे पूर्वपदप्रकृतिस्वरे च कृत्सवरेण थाथादिस्वरेण ६।२।१४३ बाधिते तत्प्रतिपादनार्थ वचनम्()। "अहिहतः" इति। "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। "अहिरन्तोदात्तो व्युत्पादतः" इति। आङ्पूर्वाद्धन्तेः "जनिघसिभ्यामिण्()" (द।उ।१।५८) इति वर्तमाने "वातेर्डिचच" इति डिदिति च "आङिश्रिहनिभ्यां ह्यस्वश्च" (द।उ।१।६६) इत्यनेनाहिरिणन्तो व्युत्पादितः। "केचिदादयुदात्तमिच्छन्ति" इति। ते "समाने ख्यः स चोदात्तः" (पं।उ।४।१३६) इत्युदात्तग्रहणमप्यनुवर्तयन्ति। "रक्प्रत्ययान्तः" इति। "स्फायितञ्चि" (द।उ।८।३१) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्()। "महाराजष्टच्प्रत्ययान्तः" इति। "स्फायितञ्चि" (द।उ।८।३१) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्वादितत्वात्()। "महाराजष्टच्परत्ययान्तः" इति। "राजाहःसखिभ्यष्टच्()" ५।४।९१ इति टच्()प्रत्ययान्तत्वात्()। "दात्रलूना" इति। "धः कर्मणि ष्ट्रन्()" ३।२।१८१ इत्यनुवत्र्तमाने "दाम्नीशस्()" (३।२।१८२) इत्यादिना ष्ट्रन्? प्रत्ययान्तो दात्रशब्दो व्युत्पाद्यते, तेनाद्युदात्तः। सर्वत्र "तयोरेव कृत्यतखलार्थाः" ३।४।७० इति कर्मणि क्तः॥