पूर्वम्: ८।१।७
अनन्तरम्: ८।१।९
 
सूत्रम्
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु॥ ८।१।८
काशिका-वृत्तिः
वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु ८।१।८

एकार्थः पदसमूहो वाक्यम्। वाक्यादेरामन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद् वाक्यं भवति। तत्र परगुणानामसहनम् असूया। पूजा सम्मतिः। कोपः क्रोधः। निन्दनं कुत्सनम्। अपकारशब्दैर्भयोत्पादनं भर्त्सनम्। एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः। असूयायाम् तावत् माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, रिक्तं ते आभिरूप्यम्। सम्मातौ माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, शोभनः खल्वसि। कोपे माणवक ३ माणवक, अविनीतक ३ अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके, रिक्ता ते शक्तिः। भर्त्सने चौर चौर ३, वृषल वृषल ३, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम्। असूयादिषु स्वरितम् आम्रेडिते ऽसूयासंमतिकोपकुत्सनेषु ८।२।१०३ इति पूर्वपदस्य प्लुतः। भर्त्सने तु आम्रेडितं भर्त्सने ८।२।९५ इत्याम्रेडितस्य एव प्लुतः। वाक्यादेः इति किम्? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक। आमन्त्रितस्य इति किम्? उदारो देवदत्तः। असूयादिषु इति किम्? देवदत्त गामभ्याज शुक्लाम्।
बाल-मनोरमा
वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभत्र्सनेषु , ८।१।८

वाक्यादेः। "द्वे स्त" इति शेषः। यद्यपि कोपाद्भत्र्सनम्, असूयया कुत्सनं, तथापि विनापि कोपाऽसूये भत्र्सनकुत्सनयोः शिष्यादौ संभवात्पृथग्ग्रहणमिति भाष्ये स्पष्टम्। सुन्दरेति। सोन्दर्यमसहमानस्येदं वाक्यम्। देवेति। तव वन्दनं सम्मतिमित्यर्थः। दुर्विनीतेति। क्रोधाविष्टस्य वाक्यम्। ज्ञास्यसीति। "दुर्विनयस्य फल"मिति शेषः। धानुष्केति। युद्धाऽसमर्थं प्रति निन्देयम्। चोरेति। चोरं प्रति अवाच्यवादोऽयम्।

तत्त्व-बोधिनी
वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनाङत्र्सनेषु १५९३, ८।१।८

वाक्यादेः। सुन्दरसुन्दरेत्यादि। "स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु", "आम्रेडितं भत्र्सने"इति सूत्राभ्यां यतायथं प्राप्तःप्लुतौ वैकल्पिकत्वान्नेह कृतः। उक्तं हि प्राक् "सर्वः प्लुतो वैकल्पिकः"इति। नन्वत्र कोपाऽसूयाभ्यां पृथक्कुत्सनभत्र्सनग्रहणमपार्थकम्। न ह्रसूयां विना कुत्सयते, न वा अकुपितो भत्र्सयते इथि चेकत्। अत्राहुः---गुरवो हि हतैषित्वादकुपिता अपि भत्र्सनं कुर्वते, "विनाप्यसूयां कुत्सां कुर्वन्ती"ति पृथक्तया निर्देशः सूत्रकारेण कृतः। "साऽमृतैः पाणिभिर्ध्नन्ति गुरवो न विषोक्षितैः। लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणा"इति।