पूर्वम्: ८।२।९४
अनन्तरम्: ८।२।९६
 
सूत्रम्
आम्रेडितं भर्त्सने॥ ८।२।९५
काशिका-वृत्तिः
आम्रेडितं भर्त्सने ८।२।९५

वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनम् उक्तम्, तस्य आम्रेडितं प्लवते। चौर चौर३, वृषल वृषल३, दस्यो दस्यो३, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा। भर्त्सने पर्यायेण इति वक्तव्यम्। चौर३ चौर, चौर चौर३। तदर्थम् आम्रेडितग्रहणम् द्विरुक्तोपलक्षणार्थं वर्णयन्ति।
न्यासः
आम्रेडितं भत्र्सने। , ८।२।९५

"चौर चौर३" इति। "वाक्यादेरामन्त्रितस्य" ८।१।८ इत्यादिना भत्र्सने द्विर्वचनम्()। यद्यपि वाक्यग्रहणमेतदन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्(), तथापीह वचनसामथ्र्यादनन्त्यस्यापि भवति। न हि वाक्यान्ते भत्र्सन आम्रेडितं सम्भवति, वाक्यादेरेव पदस्य भत्र्सने द्विर्वचनविधानात्()। "तदर्थम्()" इति। पर्यायेण पूर्वोत्तरयोः पदयोर्यथा स्यादित्येवमर्थम्(); द्विरुक्तोपलक्षणार्थञ्च। आम्रेडितस्य भत्र्सनग्रहणाद्विज्ञायते--तद्()द्विरुक्तस्य हि यत्? परं तदाम्रेडितम्()। न च तावता भत्र्सने प्रवृत्तिः सम्भवति; भत्र्सनस्य द्विरुक्तिद्योत्यत्वात्()। तस्माद्()द्विरुक्तोपलक्षणार्थमाम्रेडितग्रहणं विज्ञायते। तद्()द्विरुक्तिश्च पूर्वोत्तरविषयेऽपीति द्वयोरपि प्लुतो भवति। स च पर्यायेण भवति, न यौगपद्येन; भत्र्सनद्योतनफलत्वात्? प्लुतेः। अन्यतरप्लुत्यैव च तद्भत्र्सनस्य द्योतितत्वात्()॥