पूर्वम्: ८।२।३१
अनन्तरम्: ८।२।३३
 
सूत्रम्
दादेर्धातोर्घः॥ ८।२।३२
काशिका-वृत्तिः
दादेर् धातोर् घः ८।२।३२

दकारादेः धातोः हकारस्य घकारादेशो भवति झलि परतः पदान्ते च। दग्धा। दग्धुम्। दग्धव्यम्। काष्ठधक्। दोग्धा। दोग्धुम्। दोग्धव्यम्। गोधुक्। दादेः इति किम्? लेढा। लेढुम्। लेढव्यम्। गुडलिट्। धातोः इति दादिसमानाधिकरणम् एतन् न, किं तर्हि, तद्विशेषणम् अवयवषष्ठ्यन्तम्, धातोरवयवो यो दादिः शब्दस् तदवयवस्य हकारस्य इति। किं कृतं भवति? अधोकित्यत्र अपि घकारः सिद्धो भवति। कथं दोग्धा, दोग्धुम् इति? व्यपदेशिवद्भावात्। अथ वा धातूपदेशे यो दादिः इत्येवं विज्ञायते। तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययः दामलिटित्यत्र अपि न भवति।
लघु-सिद्धान्त-कौमुदी
दादेर्धातोर्घः २५३, ८।२।३२

झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः॥
न्यासः
दादेर्धातोर्घः। , ८।२।३२

"दग्धा, दग्धुम्()" इति। पूर्ववद्धत्वम्(), घकारस्य झशि झशत्वम्()--गकारः। "काष्ठधक्()" इति। क्विबन्तमेतत्()। "एकाचो बशो भष" ८।२।३७ इत्यादिना दकारस्य भष्()--धकारः, घकारस्य जश्त्वम्()--गकारः, तस्य चत्त्र्वम्()--ककारः। "दादेः" इत्युच्यते, तेनाधोगित्यत्र घत्वं न सिध्यति, अदकारादित्वेऽस्याविहितत्वादित्यत आह--"धातोः" इत्यादि। "तद्धिशेषणम्()" इति। दादेर्विशेषणमित्यर्थः। किंविशिष्टम्()? अवयवषष्ठ()न्तमिति। अवयवसम्बन्धिनी या षष्ठी तदन्तमित्यर्थः। "किं कृतं भवति? इति। एवं सति किमिष्ठं साधितं भवतीत्यर्थः। "अधोगित्यत्रापि घकारः सिद्धो भवति" इति। अत्रापि धातोरवयवो यो दादिशब्दस्तदवयवत्वाधकारस्य। दुहेर्लङ्(), तिप्(), अदादित्वाच्छपो लुक्(), हल्ङ्यादिलोपः ६।१।६६, पूर्धवद्भष्भावः, अट्()। "कथम्()" इत्यादि। धातोरवयवो यो दादिशब्दस्तदवयवसय हकारस्य घत्वं भवति। एवं सति दग्धा, दग्धुमित्यत्र घत्वं न कथञ्चिदित्यर्थः। तथा ह्रत्र धातोरवयवो यो दादिशब्दो न तस्यावयवो हकारः। यस्य तु समुदायस्य हकारोऽवयवः स धातुरेव, न हकारावयवः। अत्रोत्तरमाह--"व्यपदेशिवद्भावात्()" इति। एषोऽपि व्यपदेशिवद्भावेन धातोर्वादिरवयवो भवति। अभेदेऽपि व्यपदेशिवद्व्यवहारो लोके दृश्यते। तथा हि--शिलापु त्रकस्य शरीरम्(), राहोः शिर इति च। "अथ वा" इत्यादि। धातूपदेशो धातुपाठः। तत्र यो दादिरित्येवं विज्ञायते। कथं पुनर्धातुपाठे दकारादित्वं विशेषणं लभ्यते, धातुग्रहणसामथ्र्यात्()। तस्य हीदं प्रयोजनं स्यात्()--अधातोर्मा भूदिति। एतच्चाप्रयोजनम्(), न ह्रधातोर्धकारादेर्झलि वा पदान्ते च हकारोऽवयवः सम्भवति, यन्निवृत्त्यर्थं धातुग्रहणम्()। तदतिरिच्यमानं धातूपदेश एव दकारादित्वं विशेषणं भवतीत्यमुमर्थं गमयति। एवं विज्ञायमाने यद्यपि "धातोः" इत्यस्य "दादेः" इत्यनेन सामानाधिकरण्यम्(), तथाप्यधोगित्यत्र घत्वं प्रवत्र्तत एव; धातुपाठे दुहेर्दकारादित्वात्()। "तथा च" इत्यादि। एवञ्च विज्ञायमाने यद्यपि दामलिह्रतेर्दकारादित्वम्(), तथापि दामलिडित्यत्र न भवति धत्वम्()"; धातूपदेशे तस्यादकारादित्वात्()। धातुत्वं तस्य "सनाद्यन्ता धातवः" ३।१।३२ इति। न केवलमधोगित्वत्र धत्वं भवति, अपि तु दामलिहेरपि भवतीत्यपिशब्दो द्योतयति। दाम लेढोति दामलिडिति क्विप्(), तदन्ताद्? दामलिहमिल्छतीति "सुप आत्मनः क्यच्(); ३।१।८ इति क्यच्(), क्यजन्तात्? क्विप्(), "अतो लोपः" ६।४।४८ इत्यकारलोपः, "क्यस्य विभाषा" ६।४।५० इति यकारस्य च, "हो ढः" ८।२।३१ इति ढत्वम्(), ढकारस्य जश्त्वम्()॥
बाल-मनोरमा
क्षादेर्धातोर्धः , ८।२।३२

दुह्धातोः क्विन्तात्सुलोपे दुहित्यत्र ढत्वे प्राप्ते ढत्वं क्वचिदपवदति--दादेर्धातोः। "हो ढः" इत्यतो "ह" इति षष्ठ()न्तमनुवर्तते। "झली"ति "पदस्ये"ति, "अन्ते" इति च पूर्ववदनुवर्तते। "धातो"रिप्यावर्तते। एकं धातुग्रहणमवयवषष्ठ()न्तं हकारेऽन्वेति-"धातोरवयवस्य हस्ये"ति। "दादे"रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति। दाअदिर्यस्येति बहुव्रीहिः, "धातो"रिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति। ततश्च फलितमाह--उपदेशे इत्यादिना। धातूपदेशकाले यो दकारादिर्धातुस्तदवयवस्य हस्येत्यर्थः। आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति--उपदेशे किमिति। अधोगिति। "दुह प्रपूरणे" लङ्, अडागमः, तिप्, शप्, तस्य लुक्, लघूपधगुणः, हल्ङ्यादिना तिपो लोपः, "दादेः" इति हस्य घः। "एकाचो वशः" इति भष्भावेन दकारस्य धकारः। "वाऽवसाने" इतचि चत्र्वजश्त्वे इति भावः। यथा स्यादिति। यथेति प्राप्तियोग्यतायाम्। घत्वमत्र प्राप्तियोग्यं, तच्च उपदेशग्रहणे सत्येव स्यादित्यर्थः। घत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृतेऽडागमे "तदागमास्तद्ग्रहणेन गृह्रन्ते" इत्यकारादित्वात्। अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात्। उपदेशग्रहणे तु नायं दोषः, घत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाऽभावेऽपि धातूपदेशकाले दादित्वादिति भावः। तदेवमव्याप्तिपरिहारफलमुक्त्वाऽतिव्याप्तिपरिहारफलमाह--दामेति। ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः। "लिह आस्वादने"दाम लेढीति दामलिट्। तमात्मन इच्छतीत्यर्थे "सुप आत्मनः क्यजि"ति क्यचि "सनाद्यन्ताः" इति धातुत्वात्तिपि शपि दामलिह्रतीति रूपम्। ततः क्विपीति। क्यजन्तात्कर्तरि क्वपि अल्लोपे यलोपे च दामलिह्शब्दात्सोर्लोपे "होढः" इति ढत्वे "वावसाने"इति चत्र्वविकल्पे दामलिट्-दामलिडिति रूपमित्यर्थः। अत्र मा भूदिति। माङि लुङ्। सर्वलकारापवादः। अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम्। कृते तु तस्मिन् घत्वमत्र न भवति। धातूपदेशे दामलिहिति सुब्दातो पाठाऽभावादिति भावः। तथा च प्रकृतोदाहरणे सौ-दुघिति स्थिते-।

तत्त्व-बोधिनी
दादेर्धातोर्घः २८५, ८।२।३२

दादेर्धाकोर्घः। "धातो"रित्यावर्तते। तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयतीत्याशयेनाह---उपदेश इति। उपदेशग्रहणस्याऽव्याप्त्यतिव्याप्तिपरिहारः फलमित्याह---अधोगित्यादिना--अत्र मा भूदित्यन्तेन।