पूर्वम्: ८।२।९१
अनन्तरम्: ८।२।९३
 
सूत्रम्
अग्नीत्प्रेषणे परस्य च॥ ८।२।९२
काशिका-वृत्तिः
अग्नीत्प्रेषणे परस्य च ८।२।९२

अग्नीधः प्रेषणम् अग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ३ श्रा३वय। ओ३ श्रा३वय। अत्र एव अयं प्लुत इष्यते। तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति। तदर्थं केचिद् वक्ष्यमाणं विभाष इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति। अपर आह सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति। इह तु, उद्धर३ उद्धर, अभिहर३ अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणि इत्येव, ओ श्रावय।
न्यासः
अग्नीत्प्रेषणे परस्य च। , ८।२।९२

अग्निमिन्त्रे इत्यस्मिन्नर्थेऽग्नीट्()ृत्विग्विशेषः, तस्य प्रेषणं नियोजनमग्नीत्प्रेषणमित्यर्थः। आदेः सन्निहितत्वात्? तदपेक्षयैव परोऽपि ज्ञायत इत्याह--"तस्मादेवादेः" इत्यादि। "अत्रैव" इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--"अग्नीदग्नीन्? विहर बर्हिस्तृणीहि" इति। कथं पुनरेतल्लभ्यते? इत्याह--"तदर्थम्()" इत्यादि। यथा च सर्वत्र प्लुतो विभाषा शक्यो विज्ञातुम्(), तथा "गुरोरनृतोऽनन्त्यस्य" ८।२।८६ इत्यादौ सूत्रे प्रतिपादितम्()। यदि तर्हि सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थम्()? न; प्रपञ्चार्थत्वात्()। अथेह कथं प्लुतः--"उद्धर३ उद्धर, अभिहर३ अभिहर" इति; स्वाध्यायकाले ह्रयंप्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि "आदेः परस्य" १।१।५३, किं तर्हि? ततोऽन्यस्यैव? इत्यत आह-देः सन्निहितत्वात्? तदपेक्षयैव परोरपि ज्ञायत इत्याह--"तस्मादेवादेः" इत्यादि। "अत्रैव" इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--"अग्नीदग्नीन्? विहर बर्हिस्तृणीहि" इति। कथं पुनरेतल्लभ्यते? इत्याह--"तदर्थम्()" इत्यादि। यथा च सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थकम्()? न; प्रपञ्चार्थत्वात्()। अथेह कथं प्लुतः--"उद्धर३ उद्धर, अभिहर३ अभिरह" इति; स्वाध्यायकाले ह्रयं प्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि "आदेः परस्य" १।१।५३, किं तर्हि? ततोऽन्यस्यैव? इत्यत आह--"इह तु" इत्यादि। विस्पष्टार्थम्()॥