पूर्वम्: ८।२।९३
अनन्तरम्: ८।२।९५
 
सूत्रम्
निगृह्यानुयोगे च॥ ८।२।९४
काशिका-वृत्तिः
निगृह्यानुयोगे च ८।२।९४

स्वमतात् प्रच्यावनं निग्रहः। अनुयोगः तस्य मतस्य आविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्दः इति केनचित् प्रतिज्ञातम्, तम् उपालिप्सुः उपपतिभिर् निगृह्य सभ्यसूयम् अनुयुङ्क्ते, अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धम् इत्यात्थ३, अद्य श्राद्धम् इत्यात्थ। अद्यामावास्य इत्यात्थ३, अद्यामावास्य इत्यात्थ। अद्य अमावास्या इत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवम् अनुयुज्यते।
न्यासः
निगृह्रानुयोगे च। , ८।२।९४

"निगृह्र" इति। ल्यबन्तमेतत्()। "स्वतात्()" इति। स्वावगमात्()। "प्राच्यावनम्()"["प्रच्याचनम्()"--प्रांउ।पाठः] इति। अपनयनम्()। "आविष्करणम्()" इति। प्रकाशनम्()। "श्राद्धम्()" इति। कर्मविशेषः। "एवमनुयुज्यते" इति। एवमादिष्कृतस्वमतः क्रियत इत्यर्थः। चकारो विभाषेत्यस्यानुकर्षणार्थः। तेनोत्तरविधिर्नित्यो भवति॥