पूर्वम्: ८।३।३३
अनन्तरम्: ८।३।३५
 
सूत्रम्
विसर्जनीयस्य सः॥ ८।३।३४
काशिका-वृत्तिः
विसर्जनीयस्य सः ८।३।३४

खरि इत्यनुवर्तते। विसर्जनीयस्य सकारः आदेशः भवति खरि परतः। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्ठकारः। प्लक्षष्ठकारः। वृक्षस्थकारः। प्लक्षस्थकारः। वृक्षस्चिनोति। प्लक्षश्चिनोति। वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षस्तरति। प्लक्षस्तरति।
लघु-सिद्धान्त-कौमुदी
विसर्जनीयस्य सः ९६, ८।३।३४

खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम्? प्रशान्तनोति। पदस्येति किम्? हन्ति॥
लघु-सिद्धान्त-कौमुदी
विसर्जनीयस्य सः १०३, ८।३।३४

खरि। विष्णुस्त्राता॥
न्यासः
विसर्जनीयस्य सः। , ८।३।३४

"खरोत्यनुवत्र्तते" इति। खरवसानयोर्विसर्जनीयः" ८।३।१५ इत्यतः अनुवृत्तिश्च मण्डूकपलतिन्यायेन, स्वसम्बन्धानुवृत्त्या वा वेदितव्यः; अन्यथा पूर्वसूत्रेऽपि ८।३।३३ खरि कार्यं विज्ञायेत॥
बाल-मनोरमा
विसर्जनीयस्य सः। १३७, ८।३।३४

विसर्जनीयस्य सः। "खरवसानयो"रित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम्, अवसानस्य तु न संबन्धः, व्याख्यानादित्याहुः। तदाह--खरीति। "विसर्जनीयस्य स" इति सिद्धे "संपुंकाना"मिति पुनर्विधानं व्यर्थमित्यत आह--एतदपवादेनेति। पुनर्विधानं "वा शरी"ति पाक्षिकविसर्गबाधनार्थमिति भावः।

संपुंकानामिति। सम् पुम्-कान्-एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः। "अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्व"मिति शेषः।

सँस्स्कर्तेति। अनुनासिकपक्षे रूपम्। संस्स्कर्तेति। अनुस्वारपक्षे रूपम्। उभयत्रापि द्विसकारत्वमेव। समो वेति। समो मस्य सुटि लोपमेके आचार्या इच्छन्तीत्यर्थः। एकशब्दोऽन्यपर्यायः। "एके मुख्यान्यकेवलाः" इत्यमरः। लोपपक्षेप्यनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह--लोपस्यापीति। "अत्रानुनासिकः पूर्वस्य तु वे"त्यत्र रोः पूर्वस्येत्युपलक्षणं रुप्रकरणविधेयस्य लोपस्यापि, अन्यथा रुप्रकरण इत्यर्थस्य "अत्रे"त्यस्य वैयथ्र्यात्। एवमनुनासिकात्परोऽस्वार इत्यत्र रोः पूर्वस्मादित्यपि। ततस्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिनोऽकारस्य कदाचिदनुनासिकः। तदभावपक्षेऽकारात्परोऽनुस्वारागम इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः। द्विसकारं तूक्तमेवेति। "रुत्वपक्षे" इति शेषः। ननु लोपपक्षे एवाऽनचि चेति सुटः सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात्समः सुटीति रुत्वविधानं व्यर्थमित्यत आह--तत्रेति। तत्र= द्विसकाररूपयोर्मध्ये, रुत्वे सति तत्स्थानिकसकारस्याऽनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थः। एतदर्थमेव रुत्वविधानमिति भावः। स्कोरिति लोपस्तु न, र#उत्वस्यासिद्धत्वात्। नच लोपपक्ष एव सुटः सकारस्याऽनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्र्यर्थ एवेति वाच्यं, "लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति"रिति न्यायात्। ननु वर्णसमाम्नायेऽनुस्वारस्य पाठाऽभावादनच्त्वात्ततः। परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह-अनुस्वारविसर्गेति। एतच्च हयवरट्()सूत्रे भाष्ये स्थितम्। अकारोपरीति। इकाराद्युपरि पाठे "पयःसु" इत्यादौ इणः परस्य विहितमादेशप्रत्ययोरिति षत्वं स्यादिति भावः। कश्चित्तु "इणः ष" इति षत्वं स्यादिति वदन् वभ्राम, तत्र विसर्गस्यैव षत्वविधेः। एवं चाऽनुनासिकपक्षे एकसकारं द्विसकारं त्रिसकारमिति त्रीणि रूपाणि। एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम्। अनुनासिकवतामिति। अनुनासिकपक्षे एकद्वित्रिसकाराणां कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थः। ननु ककारस्याऽचः परत्वाऽभावात्कथमनचि चेति द्वित्वमित्यत आह--शरः खय इतीति। शरः परस्य खयोद्वे वा स्त इति वार्तिकार्थः। एवं चाऽनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि, एकककाराणि त्रीणिति षड()पाणि स्थितानि। अनुस्वारपक्षे तु द्वादश रूपाणीत्याह-अनुस्वारवतामिति। अनुस्वारस्यापीत्यपिना ककारसंग्रहः। अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्षु पाठस्योपशङ्ख्यातत्वेन शत्र्वाद्द्वित्वविल्पे सति द्व्यनुस्वाराणि त्रीणि(३), एकानुस्वाराणि त्रीणि(३) इति षट्(६)। अथ षण्णामप्येषां "शरः खय" इति ककारस्य द्वित्वविकल्पे सति द्विककाराणि षट्(६) एकककाराणि षट्-इत्यनुस्वारपक्षे द्वादश(१२) इत्यर्थः। एवं च अनुनासिकपक्षे षट्(६) अनुस्वारपक्षे द्वादश(१२) इत्यष्टादश(१८) रूपाणि। एषामिति। उक्तानामष्टादशानां रूपाणां तकारस्याऽचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य "यणो मय" इति पुनर्द्वित्वे एकैकस्य एकतं द्वितं त्रितमिति सङ्कलनया-एकतान्यष्टादय(१८), द्वितान्यष्टादश(१८), त्रितान्यष्टादश(१८) इति सङ्कलनया चतुरधिकपञ्चाशद्रूपाणि (५४) सम्पन्नानीत्यर्थः।

अणोऽनुनासिकत्व इति। अणोऽप्रगृह्रस्यानुनानासिक इति तकारादाकारस्याऽनुनासिकत्वविकल्पे सत्यानुनासिक्ये चतुष्पञ्चाशत् (५४)। तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिकं शतं(१०८) रूपाणि सम्पन्ननीत्यर्थः।

तत्त्व-बोधिनी
विसर्जनीयस्य सः १११, ८।३।३४

विसर्जनीयस्य। खरीति। एतच्च"खरवसानयोः" इति सूत्रान्मण्डूकप्लुत्याऽनुवर्तते।

संस्स्कर्तेति। "संपरिभ्या"मिति करोतेः सुट्। नन्वनुस्वारस्याऽनच्त्वात्ततः परस्य द्वित्वं न स्यादेवेत्यनुस्वारपक्षे त्रिसकारकं रूपं कथं स्यादित्याशङ्क्याह-अनुस्वारविसर्गेत्यादि। अकारोपरीति। यदि त्विकारोपरि पठ()एरंस्तर्हि "पयःसु" "यशःसु" इत्यादौ "इणः परस्ये"ति षत्वं स्यादिति भावः। अच्त्वादिति। न चैवं "हरिः कर्ता" "हरिंस्मरेत्" "रामः पातीत्यादौ यणादिप्रसङ्गः, त्रिपादीस्थत्वेन विसर्गादीनामसिद्धत्वात्। अनुस्वारस्यापि द्वित्वे इति। अपिशब्दात्ककारस्य। वचनान्तरेणेति। "अचो रहाभ्या"मिति कृतेऽपि "यणो मयः" इति भवत्येवेति भावः।