पूर्वम्: ८।३।३४
अनन्तरम्: ८।३।३६
 
सूत्रम्
शर्परे विसर्जनीयः॥ ८।३।३५
काशिका-वृत्तिः
शर्परे विसर्जनीयः ८।३।३५

शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भि प्सातम्। वासः क्षौमम्। पुरुषः त्सरुः। घनाघनः क्षोभणश्चर्षणीनाम्। न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः
न्यासः
शर्परे विसर्जनीयः। , ८।३।३५

शर्? परो यस्मादिति वहुव्रीहिः। अथ परग्रहणं किमर्थम्(), न शरीत्येवोच्येत() अशक्यमेवं वक्तुम्(), एवं ह्रुच्यमाने शर एव केवलं निमित्तभावो विज्ञायेत, न खरीत्यनुवृत्तेः "वा शरि" ८।३।३६ इति विधानाच्च। विपर्ययस्तर्हि विज्ञार्येत--शरीति, तथा च नित्यः स्फोटः, पुरुषः स्थूल इत्यादादेव स्यात्(), वासः क्षीममित्यादौ तु न स्यात्()? तस्माद्विपर्ययो मा विज्ञायीत्येवमर्थं परग्रहणम्()। अथ किमर्थं विसर्जनीय इत्युच्यते, नेत्येवोच्येत, सकारस हि प्रतिषेधे कृते विसर्जनीयः स्वेनैव रूपेणावस्थास्यते? इत्याह--"विमर्जनीयस्य" इत्यादि। तस्य विसर्जनीयसय विकारो जिह्वामूलीयादिः, तन्निवृत्त्यर्थ विसर्जनीयग्रहणम्(); अन्यथा यदि नेत्येवोच्येत, ततः "अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा" (व्या।प।२९) इति सकारस्यैव विज्ञायेत। ततश्च जिह्वामूलीयादिर्विसर्जनीयस्य विकारः स्यादेव। विसर्जनीयग्रहणे तु तत्सामथ्र्यादेव न भवति॥
तत्त्व-बोधिनी
शर्परे विसर्जनीयः १२२, ८।३।३५

शर्परे विसर्जनीयः। "शर्परे" इति बहुव्रीहिः। अनुवर्तमानश्च खरन्यपदार्थः। सत्वादेरयमपवादः। यदि तु "शर्परे ने"त्यवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम् "वासः क्षौममद्भिः प्सात"-मित्यादौ। विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह -न त्वन्यदिति। तदेव स्फुटयति-इहेति।