पूर्वम्: ८।३।६२
अनन्तरम्: ८।३।६४
 
सूत्रम्
प्राक्सितादड्व्यवायेऽपि॥ ८।३।६३
काशिका-वृत्तिः
प्राक् सितादड् व्यवाये ऽपि ८।३।६३

सेवसित ८।३।७० इति वक्ष्यति। प्राक् सितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः तत्र अड्व्यवाये ऽपि मूर्धन्यो भवति इत्येवं तद् वेदितव्यम्, अपिशब्दादनड्व्यवाये ऽपि। वक्ष्यति उपसर्गात् सुनोतिसुवति इति षत्वम्। अभिषुणोति। परिषुणोति। वषुणोति। निषुणोति। अभ्यषुणोति। पर्यषुणोत्। व्यषुणोत्। न्यषुणोत्।
न्यासः
प्राक्सितादङ्व्यवायेऽपि। , ८।३।६३

"इण्कोः" ८।३।५७ इति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाद्व्यवायेन प्राप्नीतौतीदमारभ्यते। अङ्ग्रहणेनागमस्य ग्रहणम्(), न प्रत्याहारस्य। एतच्च व्याख्यानाद्वेदितव्यम्()। "प्राक्सितसंशब्दनात्()" इति। "परिनिविभ्यः सेवसितसय" ८।३।७० इत्यादितः। उदाहरणात्युत्तरत्र व्युत्पादयिष्यन्ते। अव्यवधानेऽपि यथा स्यादित्येवमर्थोऽपिशब्दः; अन्यथा ह्रसति तस्मिन्? यस्यापि तावत्पूर्वेण प्राप्तिरादेशसकारस्य, तस्याप्यच्यवाये न स्यात्(); तक्रकौण्डिन्यन्यायेन बाधितत्वात्? किं पुनरनादेशसकारस्य सेनायादिसम्बन्धिनो यस्य मूर्धन्यप्राप्तेरतयन्तासम्भव एव॥
तत्त्व-बोधिनी
प्राक्सितादड्?व्यवायेऽपि ९५, ८।३।६३

प्राक्सितात्। "उपसर्गात्सुनोति"त्यादिना विहितं षत्वमड्()व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम्। तेषामिति। पञ्चदशानामित्यर्थः। अब्यषुणोदित्यादीन्युदाहर्तव्यानि। स्थादिषु। इह द्वे वाक्ये,आद्यं षत्वविध्यर्थं, द्वितीयं तु नियमार्थमित्याशयेनाह--