पूर्वम्: ८।३।८१
अनन्तरम्: ८।३।८३
 
सूत्रम्
अग्नेः स्तुत्स्तोमसोमाः॥ ८।३।८२
काशिका-वृत्तिः
अग्नेः स्तुत्स्तोमसोमाः ८।३।८२

अग्नेः उत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमः। अग्नेर् दीघात् सोमस्य इष्यते। तेन इह न भवति, अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमः लताविशेषः, अग्निसोमौ तिष्ठतः। समासे इत्येव, अग्नेः स्तोमः।
न्यासः
अग्नेः स्तुत्स्तोमसोमाः। , ८।३।८२

पदादिसकारत्वात प्रतिषेधे प्राप्तेऽयमारभ्यते। एवमुत्तरत्रापि। स्तोमसोमशब्दी स्तौतिसुनोतिभ्याम्? "अर्तिस्तुसुहुरुसृधुक्षिक्षुभायावापदियक्षिनिभ्यो मन्()" ["क्षुभायापदियक्षिभ्य"--द।उ। क्षुभायावापदियक्षीनीभ्यः--प्रांयांउ।पाठः] (द।उ।७।२६) इति मन्प्रत्ययं विधाय व्युत्पाद्येते। अव्युगत्पत्तिपक्षे त्वादित एवाप्राप्तेऽनयोः षत्वं विधीयते। "अग्निष्टुत्()" इति। अग्नावुपपदे स्तौतेः क्विप। ह्यस्यस्य" ६।१।६९ इत्यादिना तुक। उपपदसमासः। "अग्निष्टोभः" इति। षष्ठीसमासः "अग्निषोमौ" इति। द्वन्द्वः, "ईदग्ने" सोमदरुणयोः" ६।३।२६ इतीत्त्वम्()। "अग्नेर्दीर्घात्? सोमशब्दस्य षत्वभिध्यते" (इति)। एतच्च भाष्ये "विभाषेटः ८।३।७९ इत्यतो विभाषाग्परहणानुवृत्तेर्लभ्यते। न च तदमुवृत्तादतिप्रसङ्गः स्यात्(), व्यवस्थितविभाषाविज्ञानात्()॥
बाल-मनोरमा
अग्नेः स्तुत्स्तोमसोमाः ९१४, ८।३।८२

अग्ने स्तुत्। स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठ()र्थे प्रथमा। "सहेः साडः सः" इत्यतः "स" इति षष्ठ()एकवचनान्तमनुवर्तते। अग्नेरिति पञ्चमी। "समासेऽङ्गुलेः" इत्यतः समासे इत्यनुवर्तते। तदाह--अग्नेः परेषामिति। षः स्यादिति। "अपदान्तस्य मूर्धन्यः" इत्यनुवृत्तेरिति भावः। "सात्पदाद्योः" इति षत्वनिषेधापवादोऽयम्। अग्निष्टुदिति। क्रतुविशेषोऽयम्। अग्निष्टोम इति। स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम। अग्नीषोमाविति। अग्निश्च सोमश्चेति विग्रहः। ईत्त्वषत्वे। अग्नीवरुणाविति। अग्निश्च वरुणश्चेति विग्रहः। ईत्त्वम्। देवताद्वन्द्वे किम्?। अग्निर्नाम कश्चित्, सोमो नाम कश्चित्। अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न। अत एव च न षत्वम्, "अग्नेर्दीर्घात् सोमस्य इष्यते"इति वार्तिकात्। इद्वृद्धौ। "अग्ने"रिति "देवताद्वन्द्वे" इति चानुवर्तते। वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात्। तदाह--वृद्धिमतीति। इदिति तकार उच्चारणार्थः। प्रयोजनाऽभावान्नेत्संज्ञा। नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात्। अग्नामरुताविति।अग्निश्च मरुच्चेति विग्रहः। "देवताद्वन्द्वे चे"त्यानङ्। आग्निमारुतं कर्मेति। "साऽस्य देवते"त्यण्। तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक्। अग्नोवरुणाविति। "ईदग्ने"इतीत्त्वम्। आग्निवारुणमिति। "साऽस्य देवते"त्यण्। ननु "तद्धितेष्वचामादे"रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽ‌ऽदिवृद्धिरित्यत आह--देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति। नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह--आनङमीत्त्वं च बाधित्वेति। "आग्निमारुत"मित्यत्रानङ्, "आग्निवारुण"मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः। ननु "समर्थानां प्रथमाद्रे"त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते। तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात् "साऽस्य देवते"त्यण्तद्धित उत्पद्यते। ततस्तन्निमित्तकोभयपदवृद्धिः। ततः "इद्वृद्धौ" इत्यस्य प्रवृत्तिरिति क्रमः। ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् "इद्वृद्धौ" इत्यनेन बाधः?, युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात्। उक्तं च भाष्ये--"भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या"दिति। अत आह--अलौकिके [विग्रह]वाक्ये इति। अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः। यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः।

तत्त्व-बोधिनी
अग्नेः स्तुत्स्तोमसोमाः ७९०, ८।३।८२

अग्नेः। "सात्पदाद्यो"रिति निषेधेऽयमारम्भः। अग्निष्टुदिति। अग्निः स्तूयतेऽस्मिन् स कतुविशेषः। सम्पदादित्वादधिकरणे क्विप्। अग्निष्टोम इति। अग्नीनां स्तोमोऽग्निष्टोमः। सोमयागस्य संस्थास्वाद्या संस्थोच्यते।