पूर्वम्: ८।४।२३
अनन्तरम्: ८।४।२५
 
सूत्रम्
अयनं च॥ ८।४।२४
काशिका-वृत्तिः
अयनं च ८।४।२५

अन्तरदेशे इति वर्तते। अयननकारस्य च अन्तःशब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने। अन्तरयणं वर्तते। अन्तरयणं शोभनम्। अदेशे इत्येव, अन्तरयनो देशः।
न्यासः
अयनञ्च। , ८।४।२४

"अयनम्()" इति। अयतेः, इणो वा ल्युटि रूपम्()। "कृत्यचः" ८।४।२८ इत्यनेनैव सिद्धेऽदेशप्रतिविधानार्थ वचनम्()। चकारेणादेशग्रहणमुपसर्गग्रहणं चानुकृष्यते। तेषामुत्तरत्रानुवृत्तिनिरासार्थम्()॥