पूर्वम्: ८।४।५०
अनन्तरम्: ८।४।५२
 
सूत्रम्
दीर्घादाचार्याणाम्॥ ८।४।५१
काशिका-वृत्तिः
दीर्घादाचार्याणाम् ८।४।५२

दीर्घादुत्तरस्य आचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्।
न्यासः
दीर्घादाचार्याणाम्?। , ८।४।५१

नित्यार्थोऽयमारम्भः। अत्रारम्भसामथ्र्यादेव सिद्ध आचार्यग्रहणं पूजार्थ। दातद्रमित्यादौ "अनचि च" ८।४।४६ इति प्राप्तिः॥