झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।
"लब्धा" इत्यादि। लभेस्तृच्तुमुन्()तव्याः। "झषस्तथोर्धोऽधः"
८।२।४० इति धकारे झशि भकारस्य जश्त्वम्()--बकारः। "देग्धा" ["दोग्घा"--काशिका] इति। "दिह उपचये" (धा।पा।१०१५), "दादेर्धातोर्धः"
८।२।३२ इति हकारस्य धकारः। "बोद्धा" इति। जश्तेवन धकारस्य दकारः॥
झलाञ्जश् झशि। स्पष्टमिति। झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम्। तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः। इति धकारस्येति। प्रथमधकारस्येत्यर्थः। दकार इति। स्थानत आन्तर्यादिति भावः।