पूर्वम्: ८।४।५
अनन्तरम्: ८।४।७
 
सूत्रम्
विभाषौषधिवनस्पतिभ्यः॥ ८।४।६
काशिका-वृत्तिः
विभाषौषधिवनस्पतिभ्यः ८।४।६

वनम् इत्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थान् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस् तावत् दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वन्स्पतिभ्यः शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्। द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्। इह मा भूत्, देवदारुवनम्। भद्रदारुवनम्। इरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकावनम्। मिरिकावनम्। फली वन्स्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः। ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः। सत्यपि भेदे वृक्षवनस्पत्योरिह भेदेन ग्रहणं द्रष्तव्यम्।
न्यासः
विभाषौषधिवनस्पतिभ्यः। , ८।४।६

संज्ञायाम्? "षनं पुरगामिश्रका" ८।४।४ दिनियमादोषधिवनस्पतिभ्यः परस्य वननकारस्य णत्वेन न भवितव्यमिति पारिशेष्यादसंज्ञायां विभाषा वेदितव्या। परत्वादनया भिभाषया संज्ञायामपि भवितव्यमित्येतच्च नाशङ्कनीयम्(); नियमे कत्र्तव्ये विभाषाया असिद्धत्वात्()। अथ तु संज्ञायामसंज्ञायामपि विभाषेयमिष्यते, तदर्थं यत्नानन्तरमास्थेयम्()। किं पुनस्तत्()? विभाषेति योगविभागकरणम्()। योगविभागे सत्येको योगो नियमबाधनार्थो विज्ञायत इति संज्ञायामपि विभाषा सिध्यति। असिद्धत्वं तु योगविभागसामथ्र्यान्न भविष्यति। अत्र समानग्रहणसामथ्र्यात्? समानमेव यन्नित्यं पदं तत्? समानपदमित्याश्रयन्ति ये, तेषामप्राप्तविभाषेयम्(); अन्येषां तु प्राप्तविभाषा। बहुवचननिर्द्देशस्तु स्वरूपनिरासार्थः। "दूर्वावणम्()" इत्येवमादयः षष्ठीसमासाः। "द्वयक्षरत्र्यक्षरेभ्य इति वक्तव्यम्()" इति। अक्षरशब्दोऽत्राक्षु वत्र्तते। द्वे अक्षरे, त्रीणि वाक्षराणि येषां ते द्व्यक्षरत्र्यक्षाराः, ओषधिदनस्पतिशब्दाः, तेभ्यः परस्य वननकारस्य णत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्()--व्यवस्थितभाषाविज्ञानाद्द्व्यक्षरत्र्यक्षरेभ्य एव भवति। एवमुत्तरत्रापि वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु व्यवस्थितविभाषामाश्रित्य कत्र्तव्यम्()। ननु च शिरीषावयो वृक्षाः, न तु वनस्पतयः, न तु वनस्यतिग्रहणे न वृक्षस्य ग्रहणं भवति; तेषामत्यन्तभेदात्()। तथा चोक्तं शास्त्रान्तरे "फली वनस्यतिज्र्ञेयो वृक्षाः पुष्पफलोपयाः" इति। तत्कथं शिरीषवणम्(), वदरीवणमित्युदाह्मतम्()? इति यो देशयेत्? तं प्रत्याह--"फली वनस्पतिज्र्ञेयः" इति। यद्यप्यनेन श्लाकेन दृक्षवनस्पत्योर्भेदो दर्शितः, तथापि ततोरिहाभेदेन ग्रहणं वेदितव्यम्()। अभेदग्रहणे तु तयोर्भाष्यकारवचनमेव लिङ्गम्(); तथा हि "लुपि युक्तवद्व्यक्तिवचने" (१।२।५१) इत्यत्र भाष्यकारेणोक्तम्()--"व्यन्तिवचने इति किम्()? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीदवनम्()"। यद्यत्र "व्यक्तिवचने" इति। नोच्यते, तदा वचनस्पतित्वमतिदिश्येत्(), ततो वनस्पतित्वमतिदिश्येत, तत्र "विभाषौषधिवनस्पतिभ्यः" ८।४।६ इति णत्वं प्रसज्येत। यदि चेह वृक्षवनस्पत्योरभेदेव ग्रहणं न स्यात्(), ततो वनस्पतित्वातिदेशाद्विभाषा णत्वप्रसञ्जनञ्च नोपपद्यते; शिरोषाणामवनस्पतित्वात्()। "फली वनस्पतिज्र्ञेयः" इति। पुष्पमन्तरेण फलमात्रं यस्यास्तीति स फली वनस्पतिज्र्ञेय इति--उदुम्बरादयः। "वृक्षाः पुष्पफलोपगाः" इति। पुष्पं फलञ्चोपगच्छन्ति प्राप्नुवन्तीति पुष्पफलोपगाः। "अन्तात्यन्त" ३।२।४८ इत्यादौ "अन्येष्यपि दृश्यते" (वा। २५६) इत्युपसंख्यानाड्डप्रत्ययः। न च ये पुष्पफले उपगच्छन्ति त एव वृक्षाः, किं तर्हि? येऽन्यतरत्? पुष्पं फलं चोपगच्छन्ति तेऽपि वृक्षा। एव। तत्र वेतसादयः पुष्पमेदोपगच्छन्ति, प्लक्षादयः फलमेव; आम्रादयस्तूभयम्()। तत्र यो वनस्पतिः स नियतं वृक्षो भवति, यस्तु वृ()क्षः स तु नावश्यं वनस्पतिः यथा--पुष्पोपगोश्च वृक्षा वेतसादयः, फलोपगाश्च प्लक्षादयः, पुष्पफलोपगाश्चाम्रादयः। "ओषध्यः फलपाकान्ताः" इति। ओषधिशब्दात्? "कृदिकारादिक्त्निः" (ग।सू।५०) इति, "सर्वतोऽक्तिन्नर्थादित्यके" (ग।सू।५१) इति बह्वादिपाठात्? ङीष्()। फलपाकेनान्तो विनाशो यासां ताः फलपाकान्ता ओषध्यो विज्ञेयाः, कवल्यादयः। "लता गुल्माश्च वीरुचः" इति। लताः=प्रतानवत्थो मालत्यादयः। गुल्माः=ह्यस्वस्कन्धास्तरावः। वीरुषः=बहुप्रकाण्डपचा विज्ञेयाः॥
बाल-मनोरमा
विभाषौषधिवनस्पतिभ्यः १०३६, ८।४।६

विभाषौषधि। वनस्य णत्वमिति। ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः। ओषधिभ्यः उदाहरति--दूर्वावणमिति। "ओषध्यः फलपाकान्ताः" इत्यमरः। अथ वनस्पतिभ्य उदाहरति--शिरीषवणमिति। यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः, "वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति"रित्यक्तेः। शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम्। अत एव "सुपि युक्तवद्व्यक्तिवचने" इति सूत्रे भाष्ये "शिरीषवण"मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक्। द्व्यच्त्र्यज्भ्यामेवेति। "परस्य वनस्य णत्वं वाच्य"मिति शेषः। देवदारुवनमिति। प्रत्युदाहरणम्।

इरिकादिभ्य इति। एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः।

तत्त्व-बोधिनी
विभाषौषधिकवनस्पतिभ्यः ८६८, ८।४।६

शिरीषवणमिति। ननु "वानस्पत्यः फलैः पुष्पत्तैरपुष्पाद्वनस्पति"रित्यमर कोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः। शिरीषल्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत्()। अत्राहुः--वनस्पतिशब्देनात्र वृक्षमात्र मुपलक्ष्यते। अत्र च "लुपि युक्तव"दिति सूत्रस्थं भाष्यं लिङ्गम्। तत्र हि व्यक्तिवचने किम्()। शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येतेत्युक्तम्। तच्च शिरीषाणां वनस्पतित्वे सङ्गच्छते नान्यथेति दिक्।

व्द्यच्त्र्यज्भ्यामेव। व्द्यच्त्र्यज्भ्यामेवेति। व्यवस्थितविभाषाश्रयणादिति भावः। ओषधित्वात्प्राप्ते प्रतिषेधमाह।

ईरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकादिभ्य इथि। एतदपि व्यवस्थितविभाषाज्ञानादेव सिद्धम्। उशीनरा इति। इह उशीनरशब्दस्त द्देशवासिषु भाक्तः। कर्मणि ल्युडिति। "कृत्यल्युटो बहुल"मित्यनेन। वा भाव। आदेशार्थ आरम्भ इत्यप्रप्तविभाषा।