प्रथमावृत्तिः
सूत्रम्॥
व्याङ्परिभ्यो रमः॥ १।३।८३
पदच्छेदः॥
व्याङ्परिभ्यः ५।३ रमः ५।१ ८५ परस्मैपदम् १।१ ७८
काशिका-वृत्तिः
व्याङ्परिभ्यो रमः १।३।८३
रमु क्रीडायम्। अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते। विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्यः इति किम्? अभिरमते।
लघु-सिद्धान्त-कौमुदी
व्याङ्परिभ्यो रमः ७५२, १।३।८३
रमु क्रीडायाम्॥ विरमति॥
न्यासः
व्याङपरिभ्यो रमः। , १।३।८३