प्रथमावृत्तिः
सूत्रम्॥
विभाषाऽकर्मकात्॥ १।३।८५
पदच्छेदः॥
विभाषा १।१ अकर्मकात् ५।१ उपात् ५।१ ८४ रमः ५।१ ८३ परस्मैपदम् १।१ ७८
काशिका-वृत्तिः
विभाशा ऽकर्मकात् १।३।८५
रमः उपातिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद् भुक्तम् औपरमति, यावद् भुक्तम् उपरमते। निवर्तते इत्यर्थः।
न्यासः
विभाषाऽकर्मकात्। , १।३।८५
"यावद्भुक्तम्" इति। "यावदवधारणे"
२।१।८ इत्यव्ययीभावः।"भुक्तम" इति। "नपवंसके भावे क्तः"
३।३।११४ इति क्तप्रत्ययः। यावन्ति भोजनानि तावद्भ्यो निवत्र्तत
इत्यर्थः। अथ वा-- यावद्()भुक्तमिति यथार्थे वीप्सायामव्ययीभावः। भोजनाद्भोजनन्निवत्र्तत इत्यर्थः॥