भविष्यति इति निवृतम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यते ऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः। स्पृश उपताप इति वक्तव्यम्। स्पृशति इति स्पर्शः उपतापः। ततो ऽन्यत्र पचाद्यच् भवति। स्पर्शो देवदत्तः। स्वरे विशेषः।
पदेर्ण्वृल्तृचोरपवादो घञ् विधीयते, रुजिविशिभ्यामिगुपधलक्षणस्य कस्य, स्पृशेश्च पचाद्यचः। "पादः" इति। "अत उपधायाः"
७।२।११६ इति वृद्धिः। यद्येवम्,
पदमिति न सिद्ध्यति? न तु खलु न सिद्ध्यति, "अनुदात्तं पदमेकवर्जम्
६।१।१५२इति निपातनात्।
"स्पृश उपतापे इति वक्तव्यम्िति। उपतापः = रोगः, तत्र स्पृशेर्घञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "लृटः सद्वा"
३।३।१४ इत्यतो वाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन स्पृशेरुपात एव कत्र्तरि भवति, नान्यत्रेति। "स्वरे विशेषः" इति। अचि हि सत्यन्तोदात्तत्वं भवति, घञि तु पदस्याद्युदात्तत्वं स्यात्। घञो ञकारो वृद्ध्यर्थः, आद्युदात्तार्थश्च। घकारः "चजोः कुघिण्ण्यतोः"
७।३।५२ इति कुत्वार्थः॥