पूर्वम्: ५।२।९४
अनन्तरम्: ५।२।९६
 
सूत्रम्
प्राणिस्थादातो लजन्यतरस्याम्॥ ५।२।९५
काशिका-वृत्तिः
प्राणिस्थादातो लजन्यतरस्याम् ५।२।९६

प्राणिस्थवाचिनः शब्दाताकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थातिति किम्? शिखावान् प्रदीपः। आतिति किम्? हस्तवान्। पादवान्। प्राण्यङ्गादिति वक्तव्यम्। इह मा भूत्, चिकीर्षा ऽस्य अस्ति चिकीर्षावान्, जिहीर्षा ऽस्य अस्ति जिहीर्षावान्। प्रत्ययस्वरेण एव अन्तोदात्तत्वे सिद्धे, चकारश्चूडालो ऽस्ति इत्यत्र स्वरितो वानुदत्ते पदादौ ८।२।६ इति स्वरितबाधनार्थः।
लघु-सिद्धान्त-कौमुदी
प्राणिस्थादातो लजन्यतरस्याम् ११९०, ५।२।९५

चूडालः। चूडावान्। प्राणिस्थात्किम्? शिखावान्दीपः। प्राण्यङ्गादेव। मेधावान्॥
न्यासः
प्राणिस्थादतो लजन्यतरस्याम्?। , ५।२।९५

"कणिकालः" इति। कणिकादिशब्दोऽयं प्राण्यङ्गस्य वाचकः, नालङ्कारविशेषस्य। प्राण्यङ्गादेव हीष्यते, अत आह--"प्राण्यङ्गादिति वक्तव्यम्()" इति। प्राण्यङ्गत्वादेवाकारान्तल्लज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इतिकरणो विवक्षार्थोऽनुवत्र्तते। तेन प्राण्यङ्गदेव भविष्यतीति, नान्यस्मात्()। अनभिधानाद्वाऽप्राण्यङ्गान्न भविष्यतीति। ननु चैकाचो लचः प्रत्ययस्वरेणान्तोदात्तत्वं सिद्धम्(), तत्किमर्थं चकारः? इत्याह--"प्रत्ययस्वरेणैव" इत्यादि। चूडालशब्दात्? प्रथमैकवचनान्तात्? परतोऽसिशब्दे व्यवस्थिते तस्य "तिङ्ङतिङः" ८।१।२८ इति निघातः, सोः "ससजुषो रुः" ८।२।६६ इति रुत्वम्(), "अतो रोरप्लुतादप्लुते" ६।१।१०९ इत्युत्वम्(),ाद्गुणः" ६।१।८४, तस्य च "एकादेश उदात्तेनोदात्तः" ८।२।५ इत्युदात्तत्वम्(), "एङः पदान्तादति" ६।१।१०५ इति पररूपमेकादेशः। असति तु वकारे "स्वरितो वानुदात्तेऽपदादौ" ८।२।६ इति स्वरितः स्यात्()। अतस्तद्बाधनार्थ चकारः क्रियते॥
बाल-मनोरमा
प्राणिस्थादातो लजन्यतरस्याम् १८७८, ५।२।९५

प्राणिस्थात्। आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः। शिखावान् दीप इति। अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः। प्राण्यङ्गादेवेति। भाष्ये तथा वचनादिति भावः। ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह--प्रत्ययस्वरेणेति। चूडालोऽसीति। तत्र असीत्येतत् "तिङ्ङतिङः" इति निहतम्। चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्य "एकादेश उदात्तेने"त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात् "स्वरितो वाऽनुदात्ते" इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः।

तत्त्व-बोधिनी
प्राणिस्थादातो लजन्यतरस्याम् १४४३, ५।२।९५

प्राणिस्थात्। शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता। शिखशब्दस्य व्रीह्रादिपाठेन लचोऽप्रसङ्गात्। "चूडावान् वृक्षः"इति प्रत्युदाहार्यमिति हरदत्तः। न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम्, मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात्। प्राण्यङ्गादेवेति। एतच्चेतिकरणानुवृत्त्या लभ्यते। चूडालोऽसीति। "असी"त्यस्य "तिङ्ङतिङः"इति निगातः। चूडालशब्दात्सोरुत्वे तस्य "अतो रोरप्लुता"दित्युकारे कृते, हलां स्नंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः। सुप्स्थानिकस्यापि सुप्त्वात् "अनुदात्तौ सुप्पितौ"इत्यनुदात्त इत्यन्ये। पूर्वेण सह आद्गुणे सति "एकादेश उदात्तेने"त्योकार उदात्तः। ततः "एङः पदान्तादती"ति पूर्वरूपमेकादेशस्तस्य "स्वरितो वाऽनुदात्ते"इत्यादिना स्वरिते प्राप्ते तद्बाधनाय चकार इत्यर्थः।