पूर्वम्: ६।३।११०
अनन्तरम्: ६।३।११२
 
सूत्रम्
सहिवहोरोदवर्णस्य॥ ६।३।१११
काशिका-वृत्तिः
सहिवहोरोदवर्णस्य ६।३।११२

सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्य इति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायाम् अपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्।
लघु-सिद्धान्त-कौमुदी
सहिवहोरोदवर्णस्य ५५३, ६।३।१११

अनयोरवर्णस्य ओत्स्याड्ढलोपे। उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्। अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व। अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्। अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि॥
लघु-सिद्धान्त-कौमुदी
इति भ्वादयः १ ५५३, ६।३।१११

लघु-सिद्धान्त-कौमुदी
अथादादयः ५५३, ६।३।१११

लघु-सिद्धान्त-कौमुदी
अद भक्षणे १ ५५३, ६।३।१११

न्यासः
सहिवहोरोदवर्णस्य। , ६।३।१११

"ऊढः, ऊढवान्()" इति। यजादित्वात्? सम्प्रसारणम्()। "सम्प्रसारणाच्च" ६।१।१०४ इति परपर्वत्वम्(), दीर्घत्वं च। तत्रेदानीमसत्यवर्णग्रहणे ऊकारस्याप्योत्त्वं स्यात्()। ननु च सम्परसारणादिभ्यः परत्वादोत्त्वेन भवितव्यम्(), तथा च भाव्ये "उभयोर्नित्ययोः परत्वादोत्त्वेन भवितव्यम्(), आत्वे कृते सम्प्रसारणम्(), सम्प्रसारणे कृते सम्परसारणपरपूर्वत्वम्(), कृतकार्यत्वात्? पुनरोत्त्वं न भविष्यति" इति। तस्माद्भवितव्यमेवौत्त्वेन, तस्मिन्? सति पश्चा सम्प्रसारणादिभिः। न चैवं किञ्चिदनिष्टमापद्यत इति नार्थो वर्णग्रहणेन। एवं तह्र्रवर्णग्रहणं कुर्वन्नेतज्ज्ञापयति--क्वचित्? "सम्प्रसारणं तदाश्रयञ्च कार्यं बलीयो भवतीति। तेन यदुक्तम्()--"सम्प्रसारणं सम्प्रसारणाश्रयञ्च कार्यं बलीयो भवति" (पु।प।वृ।१०३) इति तदुपपन्नं भवति। "वर्णग्रहणं किम्()" इति। "ओदस्य" इतावत्यपि सति सोढा, सोढुमित्यादि सिध्यत्येवेत्यभिप्रायः। "कृतायामपि" इत्यादि। उत्पूर्वाद्वहेर्लृङि च्लिः, "च्लेः सिच्()" ३।१।४४तसस्ताम्(), थसस्तम्? अडागमः, ढत्वादेरसिद्धत्वात्? ततः पूर्वम्? "वदव्रज" ७।२।३ इत्यादिना वृद्धिः, ततो ढत्वादि। अथेदानीमसति वर्णग्रहणे मात्रिकस्याकारस्योच्यमानमोत्त्वं दीर्घस्य न स्यात्(), वर्णग्रहणाद्वर्णमात्रस्य भवतीति सिद्धम्()--उदवोढाम्(), उदवोढमिति? ननु च "अणुदित्? सवर्णस्य चाप्रत्ययः" १।१।६८ इत्यकारो गृह्रमाण आकारमपि ग्राहयिष्यति, तत्? किं वर्णग्रहणेन? इत्यत आह--"तादपि परः" इत्यादि। "तपरस्तत्कालस्य" १।१।६९ इत्यत्र तादपि परस्तपर इत्ययमपि समास आश्रितः खट्वैडका, खट्वैतिकायनः--इत्येवमादिषु त्रिमात्रिके चतुर्मात्रिके वत्र्तमानस्यैकारस्य वृद्धिसंज्ञा मा भूदित्येवमर्थम्()। तत्रासति वर्णग्रहणेऽकरस्य तपरत्वादाकारो न गृह्रेत्? ततश्च तस्योत्त्वं न स्यात्()। तस्मादवर्णमात्रस्य यथा स्यादित्येवमर्थ वर्णग्रहणं कत्र्तवयम्()। तादपि परस्तपरः--इत्यस्य च समासस्यैतदेव वर्णग्रहणं ज्ञापकं वेदितव्यम्()॥
बाल-मनोरमा
सहिवहोरोदवर्णस्य १९४, ६।३।१११

सहिवहोः। ढलोपे इति। "ढ्रलोप" इत्यतस्तदनुवृत्तेरिति भावः। "रलोप" इति तु नानुवर्तते, असंभवात्। तथा चसकारादकारस्य ओत्वे सोढेति रूपम्। "परिसोढे"त्यत्र "परिनिविभ्य" इति षत्वे प्राप्ते--

तत्त्व-बोधिनी
सहिवहोरोदवर्णस्य १६७, ६।३।१११

इह रेफलोपस्याऽसंभवात् "ढ्रलोपे पूर्वस्ये"त्यतो "ढलोप" एवानुवर्तते। तदाह-- ढलोप इति। ढलोपे किम्?। सहते। वहते।