पूर्वम्: ७।१।८२
अनन्तरम्: ७।१।८४
 
सूत्रम्
दृक्स्ववस्स्वतवसां छन्दसि॥ ७।१।८३
काशिका-वृत्तिः
दृक्स्ववस्स्वतवसां छन्दसि ७।१।८३

दृक् स्ववस् स्वतवसित्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये। ईदृङ्। तादृग्। यादृग्। सदृङ्। स्ववान्। स्वतवान् पायुरग्ने।
न्यासः
दृक्स्ववस्स्वतवसां छन्दसि। , ७।१।८३

"ईदृङ्(), कीदृङ्" [नास्ति--काशिकायाम्()] इति। "त्यदादिधु" ३।२।६० इत्यादिना क्विन्(), "इदंकिमोरीश्की" ६।३।८९ इतीश्की--आदेशो, हल्ङ्यादिसंयोगान्तलोपौ (६।१।६८,८।२।२३), "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वाम्()। "यावृङ्, तादृङ्()" इति। "आ सर्वनाम्नः" ६।३।९० इत्यात्वम्()। "सदृङ्()" इति। "दृग्दुशवतुषु" ६।३।८८ इति समानस्य सभावः॥