पूर्वम्: ७।२।५
अनन्तरम्: ७।२।७
 
सूत्रम्
ऊर्णोतेर्विभाषा॥ ७।२।६
काशिका-वृत्तिः
ऊर्णोतेर् विभाषा ७।२।६

ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर् न भवति। प्रौर्णवीत्, प्रौर्णावीत्। विभाषोर् णोः १।२।३ इति अङित्त्वपक्षे वृद्धिविकल्पो ऽयम्। ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ् भवति। प्रौर्णुवीत्।
न्यासः
ऊर्णोतेर्विभाषा। , ७।२।६

नित्यं वृद्धिप्रसङ्गे प्राप्ते विकल्पार्थं वचनम्()॥ "नेटि" ७।२।४ इति प्रतिषेधे प्राप्ते विकल्पार्थमिदमारभ्यते। "अकणीत्(), अकाणीत्()" इति। "अण रण वण कण भण क्वण" (धा।पा।४४४-४४६,४४९,४४७,४५०) इति भ्वादौ पठ()ते। "अरणीत्? अराणीत्()" इति। रणिरपि तत्रैव। "न्यकुटीत्()" इति। "कुट कौटिल्ये (धा।पा।१३६६)। "न्यपुटीत्()" इति। "पुट संश्लेषणे" (धा।पा।१३६७) ननु चात्र कुटादित्वान्ङित्त्वे सति "क्ङिति च" १।१।५ इति प्रतिषेधो भविष्यति, ततो नैतन्नियुयर्थम्? "अतः इत्येतत्? कत्र्तव्यम्()? इत्यत आह--"अत इत्येतस्मिन्नसति" इत्यादि। यदि "अतः" इति नोच्येत, ततोऽवश्यम्? "वदव्रजहलन्तस्याचः" ७।२।३ इत्यनुवत्र्तयितव्यम्(); अन्यथा ह्रनिर्दिष्टस्थानिकत्वादिक एव लघोर्विकल्पेन वृद्धिः स्यात्()--अदेवीदित्यादौ, अकाणीदित्यादौ त्वकारस्य न स्यात्()। अज्ग्रहणानुवृत्तौ तु सत्यामज्लक्षमेयं वृद्धिः स्यात्(), नेग्लक्षणा; निर्द्दिष्टस्थानिकत्वात्()। यत्र हि स्थानी न निर्द्दिश्यते स इग्लक्षणाया वृद्धेर्विषयः, न तु यत्र स्थानो निर्दिश्यते सोऽपि, ततश्च "क्ङिति च" १।१।५ इति प्रतिषेधो न स्यात्(); तत्र "इकः" इत्यधिकारात्()। तस्मान्न्यकुटीत्(), न्यपुटीदित्यत्र विकल्पेन वृद्धिर्मा भूदित्येवमर्थमत इति वक्तव्यम्()। "अतक्षीत्(), अरक्षीत्()" इति। "तक्षू त्वक्षू तनूकरणे" (धा।पा।६५५,६५६), "रक्ष पालने" (धा।पा।६५८)। इह सिच आनन्तर्येऽकारस्य वृद्धिरुच्यते, न क्वचिदनन्तरः सिच्? सम्भवति। तत्र "येन नाव्यवचानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) इति व्यवधानेऽपि वृद्ध्या भवितव्यम्()। एवं यथा अकाणीदित्यत्र लघोरकारस्य भवति, तथा अचकासीदित्यत्रापि लघोरकारस्य वृद्ध्या भदितव्यमेव? इत्यनेनाभिप्रायेणाह--"अथेह कस्मान्न भवत्यचकासीत्()" इति। "चकासृ दीप्तौ" (धा।पा।१०७४)। "येन" इत्यादि परीहारः। "हला व्यवधानमाश्रितम्()" इति। हलन्तस्येत्यनुवृत्तेरित्यभिप्रायः। लघोरिति किमिति येनैवं पृष्टम्(), स एवं लघुग्रहणं प्रत्याचिख्यासुराह--"अथ पुनः" इत्यादि। यद्येवं परिकल्प्यते, वचनप्रामाण्यद्धला व्यवधानमाश्रीयते, न त्वचा, "अतो लघोः" इति वक्तव्यम्(), अन्यथा ह्रतक्षीदित्यादावपि स्यात्()? अत्र हि हला व्यवधानम्(), नाचा। अथ पुनरिवं परिकल्प्यते--"येन नाव्यवधानं तेन व्यवहतेऽपि वचनप्रामाण्यात" (व्या।प।४६) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति नार्थो लघोरित्यनेनेति, न ह्रेवं परिकल्प्यमानेऽतक्षीदित्यादौ प्राप्नोति यद्यनेकेन वर्णेन व्यवधानम्()? इत्यत आह--"तत्? क्रियते" इत्यादि॥
बाल-मनोरमा
ऊर्णोतेर्विभाषा २८०, ७।२।६

ऊर्णोतेर्विभाषा। "सिचि वृद्धिः परस्मैपदेषु" इत्यनुवर्तते, "नेटी"त्यत इटीति च। तदाह--इडादाविति। आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट। और्णविष्यत्--और्णुविष्यत्। और्णविष्यत--और्णुविष्यत। द्यु इति। अनिट्। द्यौतीति। उतो वृद्धिः। सार्वधातुके लिटि च युधातुवत्। द्योतेति। द्योष्यति। अद्यौषीत्। षु प्रसव इति। षोपेशोऽयम्। अनिट्। सौतीत्यादि द्युदातुवत्। एवं कु शब्दे इतय्पि। ष्टुञ् स्तुताविति। उभयपदी अनिट्। "तुरुस्तुशम्ययः" इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिं()ध च मत्वा आह-- स्तौति स्तवीतीति। स्तुवन्ति। स्तौषि--स्तवीषि, स्तुथः-- स्तुवीथः, स्तुथ-स्तुवीथ। स्तौमि-स्तवीमि, स्तुवःस्तुवीमः। स्तुमः। स्तुवीमः। आत्मनेपदे लटि ईड्विकल्पं मत्वा आह-- स्तुते। स्तुवीते इति। स्तुवाते स्तुवते। स्तुषे--स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे।स्तुवे स्तुवहे--स्तुवीवहे स्तुमहे--स्तुवीमहे। लिटि--तुष्टाव तुष्टुवतुः तुष्टुवुः। क्रादित्वात्थल्यपि नेड्भवति। तुष्टोथ तुष्टुवथुः तुष्टुव। तुष्टाव--तुष्टव। तुष्टुव तुष्टुम। तुष्टुवे इत्यादि। स्तोता। स्तोष्यति स्तोष्यते। स्तौतु-- स्तुवीतु, स्तुतात्-- स्तुवीतात्, स्तुताम्--स्तुवीताम्, स्तुवन्तु। स्तुहि--स्तुवीहि, स्तुतात्--स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत। स्तवानि स्तवाव स्तवाम। स्तुताम्--स्तुवीताम्, स्तुवाताम्, स्तुवताम्। स्तुष्व--स्तुवीष्व स्तुवाथाम् स्तुध्वम्--स्तुवीध्वम्। स्तवै स्तवावहै स्तवावहै। लङि--अस्तौत्-अस्तवीत् अस्तुताम्-- अस्तुवीताम् अस्तुवन्। अस्तौः-- अस्तवीः, अस्तुतम्-- अस्तुवीतम्, अस्तुत--अस्तुवीत। अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम। अस्तुत-- अस्तुवीत अस्तुवातामित्यादि। विधिलिङि स्तुयात्--स्तुवीयादित्यादि। आत्मनेपदे स्तोषीष्टेत्यदि। लुङि सिचि इडभावे प्राप्ते आह-- स्तुसुधूञ्भ्य इति। तथा च "इट ईटी"ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति। अस्ताविष्टामित्यादि। "स्तुसुधूञ्भ्यः" इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न। अस्तोष्ट अस्तोषातामित्यादि।

तत्त्व-बोधिनी
ऊर्णोतेर्विभाषा २४५, ७।२।६

"सिचि वृद्धि"रिति सूत्रं, "नेटी"त्यत्र इटीति चानुवर्तत इत्याशयेनाह--- इडादावित्यादि। स्तवीतीति। "तुरुस्तुशम्यमःइति ईड्वा। "स्तुसुधूञ्()भ्यः" इत्यत्र परस्मैपदेष्वित्युक्तेरात्मनेपदे तु नेट्। अस्तोष्ट। अस्तोषाताम्।