पूर्वम्: ७।२।४
अनन्तरम्: ७।२।६
 
सूत्रम्
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्॥ ७।२।५
काशिका-वृत्तिः
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ७।२।५

हकारान्तानां मकारान्तानां यकारान्तानाम् अङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्येतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर् न भवति। ग्रह अग्रहीत्। स्यम अस्यमीत्। व्यय अव्ययीत्। टुवम अवमीत्। क्षण अक्षणीत्। श्वस अश्वसीत्। जागृ अजागरीत्। णि औनयीत्। ऐलयीत्। श्वि अश्वयीत्। एदिताम् रगे अरगीत्। कखे अकखीत्। ह्म्यन्तक्षणश्वसाम् एदिताम् च अतो हलादेर् लघोः ७।२।७ इति विकल्पे प्राप्ते प्रतिषेधः। जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि ७।२।४ इति न प्रतिषिध्यते। न च अन्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात्। यदि पूर्वं गुणः स्यादिह णिश्विग्रहणम् अनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वादेव प्रतिषेधस्य सिद्धत्वात्। तस्मादिदम् एव श्विग्रहणं ज्ञापकम् न सिद्यन्तरङ्गम् अस्ति इति। अथ जागृग्रहणम् किमर्थम्, जाग्रो ऽविचिण्णल्ङित्सु ७।३।८५ इति जागर्तेर् गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति ६।२।११४ इति वृद्धिं बाधते तथा सिचि वृद्धिम् अपि बाधिष्यते? न एतदस्ति। कृते गुणे अतो ल्रान्तस्य ७।२।२ इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते। अथ गुणविधानसमर्थ्यादुत्तरकालभाविन्यपि वृद्धिर् बाध्यते, यथा जागरयति इत्यत्र अत उपधायाः इत्यपि वृद्धिर् न भवति, तथा चिण्णलोः प्रतिषेधो ऽर्थवान् भवति इति शक्यम् इह जागृग्रहणम् अकर्तुम्? तत् तु क्रियते विस्पष्टार्थम्।
लघु-सिद्धान्त-कौमुदी
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ४६८, ७।२।५

हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि। अकटीत्। अकटिष्यत्॥ गुपू रक्षणे॥ १२॥
न्यासः
ह्य्यन्तक्षण�आसजागृणिश्व्येदिताम्?। , ७।२।५

"अग्रहीत्()" इति। ग्रह उपादाने" (धा।पा। १५३३)। "अस्यमीत्()" इति। "स्थमु स्वन ध्वन शब्दे"(धा।पा।८२६)-८२८) "अवमीत्()" इति। "टु वम उद्गिरणे" (धा।पा।८४९)। "अद्यतीत्()" इति। "व्ययवित्तसमुत्सर्गे" (धा।पा।१९३२) "अक्षणीत्()" इति। "क्षणु हिंसायाम्()" (धा।पा।१४६५) अ()आसीदिति। "()आसप्राणने" (दा।पा।१०६९)। "अजागरीत्()" इति। "जागृ निद्राक्षये" (धा।पा।१०७२)। "औनयीत्? ऐलयीत्()" "ऊन परिहाणे" (धा।पा।१८८८), [परिहरणे--धा।पा।] "ईल प्रेरणे" (धा।पा।१६६०), ["इल"--धा।पा।] चुरादिणिच्()। "नोनयति" ३।१।५१ इत्यादिना चङि प्रतिषिद्धे सिजेव भवति, "आडजादीनाम्()" ६।४।७२ इत्याट्(), "आटश्च" ६।१।८७ इति वृद्धिः। "अ()आयीत्()" इति। "टु ओश्यि गतिवृद्द्योः" (धा।पा।१०१०)। "अरगीत्(), अलगीत्? इति। "रगे लगे सङ्गे [रगे शंकायाम्()--धा।पा।] (धा।पा।७८५,७८६)। "अस्थागीत्()" इति। "स्थगे संवरणे" (धा।पा।७९०) ["ष्टगे"--धा।पा।] "अकखीत्()" इति। "कखे हसने" (धा।पा।७८४)। "सा च नेटीति न प्रतिषिध्यते" इति। अनन्तराया हलन्तक्षणाया वृद्धेः प्रतिषेधः, न पूर्वस्याः। अथ किमर्थं णि()इआग्रहणम्(), यावतान्तरङ्गत्वादेवात्र गुणेन भवितव्यम्(), कृते गुणेऽयादेशेन, ततश्च यकारान्तत्वादेव तथोः प्रतिषेधो भविष्यति? इत्याह--"न च" इत्यादि। इदमन्तरङ्गत्वं सिच्यभ्युपेत्योक्तम्()। इदानीमन्तरङ्गत्वमेव सिचि नास्तीति दर्शयितमाह--"यदि" इत्यादि। किं कारणं णि()इआग्रहणमनर्थकं स्यात्()? इत्यात आह--"गुणायादेशयोः" इति। यदि तर्हि सिच्यन्तरङ्गत्वं नास्ति, यदुक्तं "अन्तरङ्गमपि गुणमेषा वृद्धिर्वचनाद्वाधते" इति तद्विरुध्यते? नास्ति विरोधः, अध्यारोप्यो तथाभिधानात्()। "अथ" इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। अथ जागृग्रहणं किमर्थमिति पृष्टस्य किं कारणं जागृग्रहणं न कत्र्तव्यमिति प्रश्नावसरे येनाभिप्रायेण पृष्टवांस्तमाविष्कर्त्तुमाह--"जाग्रोऽविचिण्()" इत्यादि। यथा जागरयतीत्यादौ "अचो ञ्णिति" ७।२।११५ इति प्राप्तां वृदिं()ध जागत्र्तर्गुणो बाधते तथा सिचिवृद्धिमपि बाधिध्यते, वृद्ध्यपवादत्वाद्गुणशास्त्रसय। "गृणे कत" इत्यादि। अकृते हि गणे या सिचि वृद्धिः प्राप्नोति सापवादत्वाद्गुणेन बाध्यते; अकृतार्थत्वाद्गुणशास्त्रस्य। न च साऽनेन वचनेन बाधिष्यते; किं तर्हि? गुणे कृते रपरत्वे च "अतो ल्रान्तस्य" ७।२।२ इत्युत्तरकालं या वृद्धि प्राप्नोति तस्याः प्रतिषेधो विधीयते, न च शक्या गुणेन बाधितुं सा। न हि "जाग्रोऽविचिण्णल्ङित्सु" ७।३।८५ इति शास्त्रं पुनः प्रवर्त्तितुमुत्सहते; कृतार्थत्वात्()। न चान्यद्()गुणलक्षणमस्त्युत्तरकालवृद्धेर्बाधकम्()। तत्र यदि जागग्रहणं न क्रियते, "अतो ल्रान्तस्य" ७।२।२ इति वृद्धि स्यात्()। "अथ" इत्यादि चोदकः। यदि गुणेऽपि कृते पुनर्वृद्धिः स्यात्(), वृद्धिविषये गुणविधानमनर्थकं स्यात्()। तस्मात्? गुणविधानसामथ्र्याद्यापि गुणे कृते रपरत्वे च पश्चात्? "अतो ल्रान्तस्य" ७।२।२ इति वृद्धिः प्राप्नोति सा प्रतिषिध्यते, यथा--जागरयतीत्यत्र। गुणे कृते रपरत्वे च या प्राप्नोति "अत उपधायाः" ७।२।११६ इत्युत्तरकालभादिनी वृद्धिः, साऽपि न भवति; गुणेन बाधितत्वात्()। "तथा च" इत्यादि। गुणाविधानसामथ्र्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गूणे कृते रपरत्वे च "अत उपधायाः" इत्युत्तरकालभाविनी वृद्धिः, साऽपि न भवति; गणेन बाधितत्वात्()। "तथा च" इत्यादि। गुणविधानसामथ्र्यादुतरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति, तदेव द्रढयति। एवञ्च चिण्णलोः प्रतिषेधोऽर्थवान्? भवति यद्युत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गुणे कृते रपरत्वे च "अत उपधायाः" ७।२।११६ इति वृद्ध्या भवितव्यम्()। चिण्णलोर्यः प्रतिषेधः क्रियते सोऽनर्थकः स्यात्()। तस्मादुत्तरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति स्थिमेतत्()। ततश्च शक्यमेव जागृग्रहणमकत्र्तम्()। एवं प्रत्याख्याते जागृग्रहणे, इतर आह--"तत्? क्रियते" इत्यादि। य एवं प्रतिपत्तुं न शक्तः, तं प्रति विस्पष्टार्थं जागृग्रहणं क्रियते॥
बाल-मनोरमा
ह्रन्तक्षम�आसजागृणिश्व्येदिताम् १४२, ७।२।५

ह्रन्त। ह्रन्त क्षम ()आस जागृ ()इआ एदित्--एषां द्वन्द्वात्षष्ठी। ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः। तदाह-- हमयान्तस्येति। क्षणादेरिति। आदिना ()आस जागृ इत्यनयोग्र्रहणम्। ण्यन्तस्येति। प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः। ()आयतेरिति। ()इआधातोरित्यर्थः। एदित इति। एत् इद्यस्येति विग्रहः। वृद्धिर्न स्यादिति। "सिचि वृद्धि"रित्यतो, "नेटी"त्यतश्च तदनुवृत्तेरिति भावः। इडादौ सिचीति। "सिचि वृद्धि"रित्यतः सिचीति, "नेटी"त्यत इटीति चानुवर्तत इति भावः। अकटीदिति। एदित्वान्न वृद्धिः। अट पटेति। "अत आदे"रिति दीर्घं मत्वाह--- आटेति। पेटतुरिति। एत्त्वाभ्यासलोपौ। वटवेष्टने। ववटतुरिति। "न शसददवादिगुणाना"मिति निषेधः। ववटिथेति। अत्र "थलि च सेटी"ति प्राप्तस्य "न शसददे"ति निषेधः। किट खिट त्रास इति। यद्यपि "इट किट कटी गता" विति अग्रे किटधातुः पठ()ते, तथाप्यर्थ भेदात्पुनरिह पाठः। खिट त्रासे,किट गतौ चेति पठितुं युक्तम्। शिट षिटेति। आद्यस्तालव्यादिः। द्वितीयस्तु षोपदेशः। जट झटेति। आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ। द्वितीयस्य तु न। जेटतुः जझटतुः। णट नृत्ताविति। णोपदेशेः। चुरादारेव नाटेः पर्युदासादयं णोपदेश एव। प्रणटति। इट किट कटी गताविति। "कटे वर्षाऽवरणयो"रिति कटिः पूर्वमेदित्पठितः। इह ईदित्पठ()ते। एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति। अकटीत् अकाटीत्। ननु तर्हि कटेत्येव कुतो न पठ()त इत्यत आह-- ईकार इति। केचित्त्विति। कटि इति ह्यस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः। अन्ये त्विति। उदाहरन्तीत्यन्वयः। प्रश्लिष्येति। कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः। अयतीति। इधातोर्लटि शपि गुणेऽयादेशः। इयायेति। णलि द्वित्वे वृद्धौ आयादेशे "अभ्यासस्याऽसवर्णे" इति इयङ्। इयुतिरिति। इकारोऽत्र ह्यस्वः। तथाहि-- इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावे "द्विर्वचनेऽची"ति निषेधाद्यणभावे "इ" इत्यस्य द्वित्वे इ इ अ--तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति "वार्णादाङ्गं बलीय" इति सवर्णदीर्घं बाधित्वा "एरनेकाच" इत्युत्तरखण्डस्य यणि "इयतु"रिति रूपम्। इधातोर्भारद्वाजनियमात्थलि वेट्। तत्र इट्पक्षे रूपमाह-- इययिथेति। थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ्। न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामथ्र्यादेव स्थानिवत्त्वाऽप्रसक्तेः। एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम्। थलि इडभावपक्षे रूपमाह-- इयेथेति। थलि द्वित्वे गुणेऽभ्यासस्येयङ्। अथुसि इयथुः। इयेति। थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य "एरनेकाच" इति यणि रूपम्। "णलुत्तमो वे"ति णित्त्वपक्षे आह-इयायेति। द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ्। णित्त्वाभावे आह-- इययेति। द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ्। वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य "एरनेकाच" इति यणि इयिव इयिमेति रूपम्। एता एष्यति अयतु आयत् अयेत्। आशीर्लिङि तु "अकृत्सार्वधातुकयो"रिति दीर्घः। ईयात्। सिचि वृद्धिः। ऐषीत्। ऐष्यत्। दीर्घस्य त्विति। दीर्घस्य ईधातोरित्यर्थः। तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत्। लिटि विशेषमाह-- अयाञ्चकारेति। ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च। कुडि वैकल्य इति। वैकल्यम् अविवेक इत्याहुः। अपूर्णभावो वा। मुड प्रुड मर्दन इत्यादि। स्पष्टम्। पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ। तदाह--- पेठतुरिति। पेठिथेति। पित्त्वेन अकित्त्वेऽपि "थलि च सेटी"त्येत्त्वाभ्यासलौपौ। अपठीत् अपाठीदिति। "अतो हलादेर्लघो"रिति वृद्धिविकल्पः। वठ स्थौल्य इति। स्थौल्यं--स्थूलीभवनम्। "न शसददवादिगुणाना"मित्येत्वाभ्यासलोपनिषेध इति मत्वाह-- ववठतुः। ववठिथेति। दोपधा इति। ष्टुत्वेन डोपधनिर्देश इति भावः। चुदिति। चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ "वावसाने" इति चर्त्त्वे चुदिति रूपम्। अदिति। अड्डधातोः क्विपि पूर्ववद्रूपम्। कदिति। कड्डधातोः क्विपि रूपम्। इत्यादीति। आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः। एकत्वस्मरणादिति। "शिक्षादा"विति शेषः। गडडि वदनेति। तवर्गान्तेषु गडीति गतम्। परस्मैपदिनः शौटु गर्व इत्यादयो गताः। तिपृ इति। प्रथमतृतीयाविदुपधौ। द्वितीयचतुर्थौ एदुपधौ। तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात्। आद्य इति। तिपृधातुरित्यर्थः। भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः। बभ्रामेति। भाष्यविरुद्धत्वादिति भावः। आद्यस्योदाहरति-- तेपत इति। शपि लघूपधगुणः। तितिप इति। "असंयोगा"दिति कित्त्वान्न गुणः। अथ तितिपिष इत्यत्र "एकाच उपदेश" इति निषेधमाशङ्क्याह--- क्रादिनियमादिति। तेप्स्यत इति। लोडादौ तु तेपतामा, अतेपत, तेपेत। अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति। तत्र लघूपधगुणे प्राप्ते--।

तत्त्व-बोधिनी
हृन्तलक्षण�आसजागृणिश्व्येदिताम् ११७, ७।२।५

हृयन्तलक्षणां अग्रहीत्। टुवम्। अवमीत्। हय गतौ। अहयीत्। क्षणु हिंसायाम्। अक्षणीत्। ()आस प्राणने। अ()आसीत्। जागृ निद्राक्षये। अजागरीत् ण्यन्ते छन्दसि "नोनयतिध्वनयती" त्यादिना चङि निषिद्धे औनयीदिति उदाहरणम्। टुओ()इआ। अ()आयीत्। इडादौ सिचीति। इडादौ किम्?। दह भस्मीकरणे। अधक्षीत्। किट खिट। इट किटेति किटिर्गतौ पठिष्यते। इह पाठस्त्वर्थभेदात्। जट झट। जेटतुः। जझटतुः। इह त्वादेशादित्वादेत्वाभ्यासलोपौ न। खट। "अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन्"। खट्वा। णट नृतौ। प्रणटति। णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेन "नट अवस्यन्दने" इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव। हट दीप्तौ। हाटकं -- सुर्वणम्। "संज्ञायां चे"ति ण्वुल् बाहुलकादस्त्रियामपि। षट। पटाद्यजन्ताट्टाप्।"सटा जटाकेसरयोःर"। चिट। "सर्वधातुभ्यः" इतिऔणादिक इन्। चेटिः। "कृदिकारात्--" इति ङीष्। चेटी। विट। इगुपधलक्षणः कः। विटः। इयायेति। द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः। "अभ्यासस्याऽसवर्णे" इति इयङ्। ईयतुरिति। द्वित्वे ककृते "एरनेकाच" इति यणं बाधित्वा अन्तरङ्गत्वात्सवर्णदीर्घः। ततः "अचि श्नुधातु-" इतीयङ्। एकादेशस्य पूर्वान्तवत्त्वेन अभ्यासग्रहणेन ग्रहणात् "अभ्यासस्याऽसवर्णे" इत्यनेनेत्येके। केचित्तु-- "वार्णादाङ्गं बलीयःर" इति दीर्घं बाधित्वा यण्। न चेह समानाश्रयत्वं नेति वाच्यम्, अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयो समानाश्रयत्वात्। अत एव ईयतुरित्यत्र "इणो यण्" इति यणै ततो "दीर्घ इणः किति" इत्यब्यासस्य दीर्घो विधीयते। अन्यथा सूत्रमिदं निर्विषयं स्यात्, अभ्यासाऽभावादित्याहुः। स्यादेतत्-- णल्थलोस्त्वभ्यासस्येयङ् दुर्लभः, तस्मिन्कर्तव्ये "अचः परस्मिन्-" इति वृद्धिगुणयोः स्थानिवद्भावेन असवण इति प्रतिषेधादिति चेत्। अत्राहुः-- न ह्रेकमुदाहरणं योगारम्भं प्रयोजयति। अन्यथा ह्रभ्यासस्यार्ताविति ब्राऊयात्। एवं चान्तरङ्गत्वात्सवर्णदीर्घे कृते ततो वृद्धिगुणयोः सतोर्णलि आय, थलि--एथ। इट्पक्षे तु अयिथेति स्यादित्याशङ्कापि न कार्या, "अब्यासस्याऽसवर्णे" इत्यस्य वैयथ्र्यापत्तेरिति। एता। एष्यति। "अकृत्सार्वेति दीर्घः। ईयात्। ऐषीत्। कुडि। वैकल्यविवेकः। तुड्ट। तोडनं दारणं हिंसनं च। रोड्ट लोड्ट। उन्मादश्चित्तविभ्रमः। गडि वदनैकदेशे। टवर्गीयप्रकरणादिह पाठस्तु उचितः। अन्तत्यादिषु तु "पञ्चैते न तिङ्विषया" इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः। तिपृ तेपृ।