पूर्वम्: ८।३।२४
अनन्तरम्: ८।३।२६
 
सूत्रम्
मो राजि समः क्वौ॥ ८।३।२५
काशिका-वृत्तिः
मो राजि समः क्वौ ८।३।२५

समो मकारस्य मकारः आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः। सम्राट्। साम्राज्यम्। मकारस्य मकारवचनम् अनुस्वारनिवृत्त्यर्थम्। राजि इति किम्? संयत्। समः इति किम्? किंराट्। क्वौ इति किम्? संराजिता। संराजितुम्। संराजितव्यम्।
लघु-सिद्धान्त-कौमुदी
मो राजि समः क्वौ ८१, ८।३।२५

क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
न्यासः
मो राजि समः क्वौ। , ८।३।२५

"सम्राट्()" इति। सम्पूर्वाद्राजतेः "सत्सूद्विव" ३।२।६१ इत्यादिना क्विप्(), व्रश्चादिना ८।२।३६ षत्वम्(), षकारस्य जशत्वम्()--डकारः, तस्य चत्र्वम्()--टकारः। "साभ्राज्यम्()" इति। ब्राआह्रणादित्वत्? व्यञ्()। किमर्थं पुनर्मकार उच्चार्यते? इत्याह--"मकारस्य मकारवचनम्()" इत्यादि। "मोऽनुस्वारः" ८।२।२३ इत्यनुस्वारः प्राप्नोति, स मा भूदित्येवमर्थं मकारस्य मकारो विधीयते। यद्येवम्(), नेति प्रतिषेधः कत्र्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात्()? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेनैतत्? सूचयति--अत्र प्रकरणेऽधिको हि विधिर्भवतीति। यवलपरे यवला वा भवन्तीत्युपपन्नं भवति। "संयत्()" इति। यमेः सम्पूर्वात्? क्विप्(), "अनुदात्तोपदेश" ६।४।३७ इत्यादिना मकारलोपः, अकारस्य "ह्यस्वस्य पिति कृति" ६।१।६९ इति तुक्()॥
बाल-मनोरमा
मो राजि समः क्वौ १२७, ८।३।२५

मो राजि। म इति प्रथमान्तम्। मोऽनुस्वार इत्यतो म इति स्थानष्ट()न्तमनवर्तते। सम इत्यवयवषष्ठी। प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः। तदाह--क्विबन्त इत्यादिना। म एवेति। न त्वनुस्वार इत्यर्थः। मस्य मविधानमनुस्वारनिवृत्त्यर्थमिति भावः। सम्राडिति। राजृ दीप्तौ सम्पूर्वात्सत्सूद्विषद्रुहेत्यादिना क्विप्। व्रश्चेति षत्वम्। जश्त्वेन डत्वम्। चत्र्वम्। अत्र मोऽस्वारो न भवति। हे मपरे वा। "मोऽनुस्वार" इत्यतो "म" इति षष्ठ()न्तमनुवर्तते। "मोराजी"त्यतो "म" इति प्रथमान्तमनुवर्तते। मः परो यस्मादिति च विग्रहः। तदाह--मपरे इति। हृलयतीति ण्यन्ताल्लट्। "ज्वलह्लसहृलनमामनुपसर्गाद्वा" इति मित्त्वण्णौ मितां ह्यस्वः।

यवलपरे इति। यवलाः परा यस्मादिति विग्रहः। यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः।

तत्त्व-बोधिनी
मो राजि समः क्वौ १००, ८।३।२५

मो राजि समः क्वौ। राजीति किम्? संपत्। सम इति किम्?, इदं राट्। क्वाविति किम्? संराजितुं, संराजितव्यम्। मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थं, तदाह--म एव स्यादिति। सम्राडिति। "राजृ दीप्तौ" संपूर्वादस्मात् "सत्सूद्विषे"त्यादिना क्विप्। व्रश्चादिना षत्वं, जश्त्वचर्त्वे।