पूर्वम्: ८।३।२७
अनन्तरम्: ८।३।२९
 
सूत्रम्
ङ्णोः कुक्टुक् शरि॥ ८।३।२८
काशिका-वृत्तिः
ङ्णोः कुक्टुक् शरि ८।३।२८

ङकारणकारयोः पदान्तयोः कुक् टुकित्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क् साये, प्राङ् साये। णकारस्य वण्ट् शेते, वण् शेते। पूर्वन्तकरणं प्राङ्क् छेते इत्यत्र छन्त्वर्थम्। शश्छो ऽटि ८।४।६२ इति हि पदन्ताज् झयः इति तद् विज्ञायते। इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन्। प्राङ्क् सायः इत्यत्र अपि सात् पदाद्योः ८।३।११३ इति षत्वप्रतिषेधार्थं च। वण्ट् सायः इत्यत्र च न पदान्ताट् टोरनाम् ८।४।४१ ष्टुत्वप्रतिषेधार्थम्।
लघु-सिद्धान्त-कौमुदी
ङ्णोः कुक्टुक् शरि ८५, ८।३।२८

वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
न्यासः
ङ्णोः कुक्टुक्? शरि। , ८।३।२८

ङश्च णश्च तौ ङ्णौ, कश्च टश्च कटौ, तयोरुकारककाराभ्यां प्रत्येकमभिसम्बन्धः--कुक्ट्गिति। उकार उच्चारणार्थः, ककारो देशविध्यर्थः। "प्राङ्क्? छेते" इति। प्राङिति "क्विन्प्रत्ययस्य कुः" ८।२।६२ इत्यत्र व्युत्पादितम्()। वण्()ट् छेते" इति। वणतेर्विच्()। किमर्थं पुनः पूर्वान्तादेतौ क्रियेते? इत्याह--"पूर्वान्तकरणम्()" इत्यादि। किं पुनः कारणं पूर्वान्तत्वे च्छत्वं भवति, न पुनः परादित्वे? इत्यत आह--"शश्छोऽटि" इत्यादि। किमर्थं पुनरेतद्धि "विज्ञायते? [वलिज्ञायेत"--कांउ।पाठः] इत्यत आह--"इह" इत्यादि। यदि पदान्ताज्झय ८।२।१० इत्येवं तत्र न क्रियेत, तदा विरप्शिन्नित्यत्र च्छत्वं विज्ञायेत, एवञ्च विज्ञायमाने न भवति, न ह्रत्र पदान्ते झय्()। "विरिष्शिन्()" इति। विपूर्वाद्रपेः "लृटः सद्वा" ["लटः"--प्रांउ।पाठः] ३।३।१४ इति शत्रादेशाः, "व्यत्ययो बहुलम्()" ३।१।८५ इति स्यप्रत्ययस्य सकारस्य शकारः, यकारस्य चेकारः। "प्राङक्? सायः" इति। अत्र परादित्वे सति "इण्कोः" ८।३।५७, "आदेशप्रत्यययोः" ८।३।५९ इति प्राप्तस्य षत्वस्य "सात्पदाद्योः" ८।३।११४ इति प्रतिषेधो न स्यात्(); अपदादित्वात्()। "वण्ट्? सायः" इति। अत्रापि "ष्टुना ष्टुः" ८।४।४० इति प्राप्तस्य ष्टुत्वस्य "न पदान्ताट्टोरनाम" ८।४।४१ इति प्रतिषेधो न स्यात्(); अपदान्तत्वात्()। तस्मात्? प्राङक्छेत इत्यादौ छत्वादिसिध्यर्थ पूर्वान्तकरणम्()॥
बाल-मनोरमा
ङ्णोः कुक् टुक् शरि १३०, ८।३।२८

ङ्णोः। "हे मपरे वे"त्यतो वेत्यनुवर्तते। कुक् च टुक् चेति समाहारद्वन्द्वः। आगमाविति। एतच्च "आद्यन्तौ टकिता"विति लभ्यम्। यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक्। उभयत्र ककार इत्ष उकार उच्चारणार्थः। "प्राङ् षष्ठः सुगण् षष्ठः" इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह--कुक्टुकोरिति।

चयो द्वितीया इति। "पौष्करसादिशब्दस्य चयो द्वितीया" इत्यर्थभ्रमं वारयति--पौश्करसादिराचार्य इति। तथाच विकल्पः फलतीति भावः। प्राङ्()क् षष्ठ इति कुकि रूपम्। "चयो द्वितीया" इति पक्षे प्राङ् ख् षष्ठ इति रूपम्। नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामथ्र्यात्। "चयो द्वितीया" इति "नादिन्याक्रोश" इति सूत्रभाष्यपठितमिदम्। "प्राङ् षष्ठ" इति कुगभावे रूपम्। एवं टुक्यपि सुगण्()टषष्ठ इत्यादि।

तत्त्व-बोधिनी
ङ्णोः कुक् टुक् शरि १०४, ८।३।२८

ङ्णोः। चयो द्वितीया इति। एतच्च नादिन्याकोशे इति सूत्रे भाष्ये स्थितम्। अतएव मनोरमायां "डः सी"ति सूत्रे "तु"डित्युच्यमाने "चयो द्वितीयाः-" इति पक्षे थकारापत्तिरुक्ता। यदि तु "ङ्णोः" इति सूत्रस्थं स्यात्तर्हि "तु"डित्येव सुवचं स्यात्। तुटोऽसिद्धत्वेन चयो द्वितीयाः-इत्यस्याऽप्रवृत्तेः। पौष्करसादेरिति। पुष्करे तीर्थविशेषे सीदतीति पुष्करसत्। तस्यापत्यं पौष्करसादिराचार्यः। बाह्वादित्वादिञ्। अनुशतिकादित्वादुभयपदवृद्धिः।