पूर्वम्: ८।४।४०
अनन्तरम्: ८।४।४२
 
सूत्रम्
न पदान्ताट्टोरनाम्॥ ८।४।४१
काशिका-वृत्तिः
न पदान्ताट् टोरनाम् ८।४।४२

पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नाम् इत्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तातिति किम्? ईड स्तुतौ ईट्टे। टोः इति किम्? सर्पिष्टमम्। अनाम् इति किम्? षण्णाम्। अत्यल्पम् इदम् उच्यते। अनाम्नवतिनगरीणाम् इति वक्तव्यम्। षण्णाम्। षण्णवतिः। षण्णवरी।
लघु-सिद्धान्त-कौमुदी
न पदान्ताट्टोरनाम् ६५, ८।४।४१

पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥
न्यासः
न पदान्ताट्टोरनाम्?। , ८।४।४१

"अनाम्()" इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः। "()आलिट्साये" इति। यदा "डः सि धुट्()" ८।३।२९ इति धुट नास्ति, तदैतदुदाहरणम्()। "ईट्टे" इति। "इड स्तुतौ" (धा।पा।१०२९)। अनुदात्तेत्त्वादात्मनेपदम्(), अदादित्वाच्छपो लुक्(), "खरि च" ८।४।५४ इति डकारस्य टः। "सर्पिष्टमम्()" इति। "अतिशायने तमप्()" ५।३।५५, "ह्यस्वात्तादौ तद्धिते" ८।३।१०३ इति सकारस्य मूर्धस्यः। "षज्णाम्()" इति। "षट्चतुम्र्यश्च" ७।१।५५ इति गुट्(), "झलां णशोऽन्ते" ८।२।३९ इति षकारस्य डकारः, "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति डकारस्य णकारः। "षण्णवतिः" इति। पडधिका नवतिरिति शाकपार्थिवा दित्वादुत्तरपदलोपिसमासः। षष्णां नगराणां समाहारः "षण्णगरी" "द्विगोः" ४।१।२१ इति ङीप्()॥
बाल-मनोरमा
न पदान्ताट्टोरनाम् ११५, ८।४।४१

तदाह--पदान्तादित्यादिना। ईट्टे इति। "ईडस्तुतौ" आत्मनेपदी। ईड्-ते इति स्थिते, खरि चेति डस्य चत्र्वम्, ततः परस्य तकारस्य टुत्वम्। तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः। सर्पिष्टममिति। सर्पिष्-तममितित स्थिते "स्वादिष्वसर्वनामस्थाने" इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात्। नच षकारस्य "झलाञ्जशोऽन्ते" इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं, "ह्यस्वात्तादौ तद्धिते" इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात्। इह "आदेशप्रत्यययोरिति" षत्वं तु न भवति, "अपदान्तस्य मूर्धन्यः" इत्यधिकारात्।

अनाम्नवति। ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः। षण्णामिति। षष्-नामिति स्थिते "स्वादिष्वसर्वनामस्थाने " इति पदान्तत्वात् षस्य जश्त्वेन डकारे "प्रत्यये भाषायां नित्य"मिति तस्य णकारः। अत्र टवर्गयोगान्नकारस्य ष्टुत्वम्। "न पदान्ता"दिति निषेधस्तु न, "अना"मिति पर्युदासात्। षण्-णगर्य इति--पृथक्पदे। न तु कर्मधारयः, "दिक्()संख्येसंज्ञाया"मिति नियमात्। अत्रापि "न पदान्ता"दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात्।