पूर्वम्: ८।३।३०
अनन्तरम्: ८।३।३२
 
सूत्रम्
शि तुक्॥ ८।३।३१
काशिका-वृत्तिः
शि तुक् ८।३।३१

नकारस्य पदन्तस्य शकारे परतो वा तुगागमो भवति। भवाञ्च्छेते। पूर्वान्तकरणं छत्वार्थम्। यद्येवं कुर्वज्च्छेते इत्यत्र नकारस्य अपदान्तत्वात् णत्वं प्राप्नोति? तत्र समधिमाहुः, स्तोः श्चुना श्चुः ८।४।३९ इत्यत्र योगविभागः क्रियते, णत्वप्रतिषेधार्थं स्तोः श्चुना णकारो न भवति इति, ततः श्चुः इति।
लघु-सिद्धान्त-कौमुदी
शि तुक् ८८, ८।३।३१

पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥
न्यासः
शि तुक्?। , ८।३।३१

"शि" इति सप्तम्यकृतार्था "नः" इति पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठीत्वं प्रकल्पयति; "तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इति वचनात्(), तेन नकर एवागमी विज्ञायत इत्याह--"नकारान्तस्य" इत्यादि। अथ किमर्थं तुक्? पूर्वान्तः क्रियते, न प्रकृतो धुडेव परादिः क्रियेत; तथापि चर्त्वेन सिध्यति? इत्यत आह--"पूर्वान्तकरणम्()" इत्यादि। पूर्वान्तः=पूर्वस्यान्तः, स पुनः प्रकरणात्? तुग्विज्ञायते, तल्प करणम्()=विधानम्(), छत्वं यथा स्यादित्येवमर्थम्()। यदि प्रकृतो धुडेव विधीयेत, "शश्छोऽटि" ८।४।६२ इति च्छत्वं न स्यात्()। तत्र च कारणं पूर्वमेवोक्तम्()। "यद्येवम्()" इत्यादि। यदि पूर्वान्तस्तुक्? क्रियते, कुर्वञ्चेते--इत्यत्र तुका पदान्तताया रहितत्वात्? नकारस्य "अट्कुष्वाङ्()" ८।४।२ इत्यनेन णत्वं प्राप्नोति, परादित्वे त्वेष दोषो न भवति; "पदान्तस्य" ८।४।३६ इति णत्वपरतिषेधादिति भावः। "तत्र" इत्यादिना "न भाभूपूकमिगमि" ८।४।३३ इत्यादेः सूत्रान्नेति वत्र्तमाने "स्तोः श्चुना श्चः" ८।४।३९ इति योगविभागः क्रियते, तेन चवर्गयोगे कुर्वञ्चेते--इत्यत्र णत्वं न भवत्येव। ननु च क्रियमाणेऽपि योगदिभागे णत्वं प्राप्नोत्येव, यस्मादिह चवर्गयोगो नास्त्येव, तुकः श्चुत्वस्यासिद्धत्वात्()? योगविभागकरणसामथ्र्यात्? श्चुत्वस्यासिद्धत्वेऽपि णत्वप्रतिषेधो भविष्यतीत्यदोषः॥
बाल-मनोरमा
शि तुक् १३३, ८।३।३१

शि तुक्। पूर्वसूत्रात् "न" इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ()न्तमाश्रीयते, शब्दाधिकाराश्रयणात्। पदस्ये"त्यधिकृतम्। अवयवषष्ठ()न्तमाश्रीयते। "हे मपरे वे"त्यतो "वे"त्यनुवृत्तं। तदाह-पदान्तस्येति। "नान्तस्य पदस्ये"त्युचितम्। उकार उच्चारणार्थः। "सन् शम्भु"रिति स्थिते नकारस्यान्तावयवस्तुक्। ननु तुग्ग्रहणं व्यर्थं, डः सि धुडित्यतो धुडेवानुवर्त्त्य नकारात्परस्य शस्य विधीयतां। खरि चेति चर्त्वे सन्()त्?शम्भुरित्यस्य सिद्धेरित्यत आह--शश्छोऽटीति छत्वविकल्प इति। "शकारस्ये"ति शेषः। धुटो विधौ तु तस्य परादित्वात्पदान्तत्वाऽभावाच्छत्वं न स्यात्, छत्वविधेः पदादिकारस्थत्वेन पदान्ताज्झयः परस्यैव शश्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात्। अन्यथा विसृपो विरफ्()शिन्नित्यांदावपि शस्य छत्वापत्तेः। पक्ष #इति। कदाचिज्झरो झरीति तुकस्तकारस्य श्चुत्वमापन्नस्य लोप इत्यर्थः। सञ्छम्भुरिति। तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन ञकारे रूपम्। सञ्च्छम्भुरिति। चुत्वमापन्नस्य तकारस्च लोपाभावे नकारस्य च श्चुत्वे ञकारे रूपम्। तुको जश्त्वं तु न, जश्त्वं प्रति तस्यासिद्धत्वात्। अत एव श्चुत्वोत्तरमपि जश्त्वं न। सञ्च्शम्भुरिति। शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम्।

सञ्शम्भुरिति। तुकोऽभावे नकारस्य चुत्वे रूपम्। तदिदं रूपचतुष्टयमुक्तक्रमं श्लोकेन संगृह्णाति--ञछाविति। तुक्()छत्वचलोपानां विकल्पनात्-ञछौ ञचछा ञचशा ञशाविति रूपाणां चतुष्टयमित्यन्वयः।

ङमो ह्यस्वात्। "ङम्" प्रत्याहारः। "ङम" इति पञ्चम्यन्तम्। तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते। "ङम" इति च "ह्यस्वा"दिति विशेषणसम्बन्धमनुभूय पदविशेषणत्वं भजत्तदन्तपरम्। "ङम" इति पञ्चमी बलादचीति सप्तमी षष्ठ()र्थे। तदाह--ह्यस्वात्पर इति। ङमुडागम इति। टकार इत्। उकार उच्चारणार्थः। संज्ञायां कृतं टित्त्वमानर्थक्यात्तदङ्गन्यायात्संज्ञिभिः सम्बध्यते। ततश्च ङुट् णुट् नुडिति त्रय आगमाः फलिताः। टित्त्वादच आद्यवयवा यथासङ्ख्यं प्रवर्तन्ते। "हे मपरे वे"ति वाग्रहणानुवृत्तिशङ्काव्युदासार्थं नित्यग्रहणम्। प्रत्यङ्()ङात्मेति। प्रत्यङ्-आत्मा इति स्थिते आकारात्प्राक् ङुट्। सुगण्णीश इति। "गण संख्याने" चुरादिः। ण्यन्ताद्विचि णिलोपः। नतु क्विप्। "अनुनासिकस्य क्वी"ति दीर्घप्रसङ्गात्। ङमुटि कर्तव्ये णिलोपस्तु न स्थानिवत्, "पूर्वत्रासिद्धे न स्थानिव"दित्युक्तेः। सुगण्-ईश इति स्थिते ईकारात्प्राक् णुट्। सन्नच्युत इति। सन्-अच्युत इति स्थिते अकारात्प्राक् नुट्। नच परमदण्डिनावित्यत्र परमदण्डिन्-औ इति स्थिते प्रत्ययलक्षणेनाऽन्तर्वतिर्विभक्त्या पदत्वान्नुट् स्यादिति वाच्यम्, "उत्तरपदत्वे" चापदादिविधा"विति प्रत्ययलक्षणप्रतिषेधात्। वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते। अन्यथा "पदव्यवायेऽपी"ति निषेधो "माषकुम्भवानपेने"त्यत्र न स्यात्। अतः परमदण्डिनौ इत्यत्र ङमुड्वारणाय "उञि च वदे" इत्यतः पदे इत्यनुवत्र्याऽजादेः पदस्य ङमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्व-बोधिनी
शि तुक् १०६, ८।३।३१

शि तुक्। "शी"ति सप्तमी पूर्वत्र कृतार्थाया "न" इति पञ्चम्याः षष्ठीं कल्पयतीत्याह--नस्येति। चलोप इति। "झरो झरी"त्यत्र सवर्णग्रहणसामथ्र्याद्यथासङ्ख्यं न प्रवर्तत इति भावः। सञ्छम्भुरिति। इह श्चुत्वतुकोरसिद्धत्वमाश्रित्य "नश्छवी"ति रुत्वं नाशङ्क्यं, छत्वस्याऽसिद्धत्वात्। चतुष्टयमिति। अत्र तुकः श्चुत्वे "चयो द्वितीयाः" इति पक्षे चस्य छत्वे शस्यापि छत्वविकल्पात्सञ्छ्()छम्भुः शञ्छ्शम्भुरिति रूपद्वयवृद्धिर्वोध्या। न च शस्य छत्वपक्षे शर्परत्वाऽभावात् "चयो द्वितीयाः-" इति पक्षे चस्य छो निति शङ्क्यम्, "शश्छोऽटी"ति छत्वस्याऽसिद्धत्वादित्याहुः।

"ञछौ ञचछा ञचशा ञशाबिति चतुष्टयम्।

रूपाणामिह तुक्छत्वचलोपानां विकल्पनात्॥"