आचार्यस्तवः
श्रुत्युक्तौ नष्टशक्तौ बत जडमतिभिः शास्त्रसार्थे हतार्थे
शिष्टाचारेऽस्तसारे प्रतिदिशमनिशं साधुलोके सशोके ।
ध्वस्ते धर्मे प्रशस्ते कलिपुरुषमृषापौरुषे जातपोषे
शम्भुः श्रीशङ्करात्मा समजनि जगतस्त्राणहेतोर्धरण्याम् ॥ १॥
आदावाधाय तांस्तान्निरुपमनिजवाग्वैखरीभिः समन्ता-
च्छिष्यान्नास्तिक्यदूरानविरतमपि तत्संप्रदायप्रवृत्त्यै ।
कृत्वा भाष्याणि तेषां प्रवचननियतिं कल्पयित्वा मठेषु
व्याख्यासिंहासनं द्रागलमकृत यतिः शारदापीठ एषः ॥ २॥
यस्मिन्नद्वैतविद्याविवरणसरणिप्रौढिमाटीकमाने
वेदैः खेदः समोदै सह सकलपुराणेतिहासैर्निरासे ।
चार्वाकैः शोकमूकैरजनि गतमदैस्तत्रसे बौद्धभेदै-
जैनैर्दीनैर्बभूवे निजमतविमुखैः कापिलैः क्वापि लिल्ये ॥ ३॥
जगद्गुरोरादिमशङ्करार्यादद्याप्यविच्छिन्नतया गुरूणाम् ।
परम्परा यत्र चकास्ति सोऽयमास्ते मठः शृङ्गगिरौ पुराणः ॥ ४॥
श्रीवेदभाष्यकर्ता विद्यारण्यो मुनिर्यमधितष्ठौ ।
अनुपममहिमा सोऽयं शृङ्गगिरौ भाति शारदापीठः ॥ ५॥
ज्ञानवैराग्यभक्तीनां धामभिः पुण्यनामभिः ।
अन्यैश्च यतिमूर्धन्यैरेष पीठो विभूषितः ॥ ६॥
एवं क्रमेण गुरुभिः परिशोभितस्य
पीठस्य लोकसुकृतेन कृतावतार ।
श्रीमच्छिवाभिनवपूर्वनृसिंहभार-
त्याख्यो मुनीन्दुरवहन्महदाधिपत्यम् ॥ ७॥
आस्तां नाम जगद्गुरोर्यतिपतेरस्यानवद्या परा
विद्या सापि तपस्विता ननु परानेषोऽतिशेते यया ।
मन्दस्मेरमुखारविन्दविगलन्माध्वीझरी भारती
सिक्ता शान्तिरसेन नः स्मृतिगता चित्ते विधत्ते मुदम् ॥ ८॥
क्वचिद्वाग्मित्वं स्यात्क्वचन विषयज्ञत्वमुभयं
न खल्वेतत्प्रायः परिकलितमेकत्र मिलितम् ।
इदः नः सौभाग्यं यदुभयमदर्शाम तदिदं
यतीन्द्रे शृङ्गाद्रिस्थिरचिरमहीयोमठपतौ ॥ ९॥
आमूलादभिदध्महे कथमिव श्रीमद्गुरूणां महो-
पन्यासे विषयावमर्शसरणिं विश्वप्रियम्भावुकाम् ।
नूनं नूतनवादिहैतुकमनस्तोषोदयं तन्वती
निर्दोषा च गुणाधिका च सपरिष्कारा च सा राजते ॥ १०॥
तर्कातर्किपटीयसीभिरभिदासिद्धान्तसौवादवा-
स्वादैकप्रवणप्रवीणपरिषत्प्राप्तप्रशंसोक्तिभिः ।
श्रीमच्छृङ्गगिरिस्थपीठमठयोरीशस्य षड्दर्शनी-
सारादृनुणतीभिरस्य यमिनो वाचाभिरोजायितम् ॥ ११॥
ब्रह्मैकतारसमये समये यमीन्द्र-
स्तुर्याश्रमानुगुणसद्गुणजातपूर्णम् ।
श्रीचन्द्रशेखरपदोत्तरभारतीन्द्र-
मन्वग्रहीन्महितपीठमठाधिनाथम् ॥ १२॥
आचार्यवर्यमहनीयनिदेशवर्ती
दीपः प्रवर्तित इव प्रगुणः प्रदीपात् ।
स्नेहोज्ज्वलः प्रकटिताखिलवस्तुतत्त्वः
क्षेमङ्करो विजयते यतिसार्वभौमः ॥ १३॥
अभेदैकत्वं नः कलयति समस्तेषु सुधियां
विशिष्टैकार्थ्याय प्रकटयति शक्तिं प्रतिनवाम् ।
व्यपेक्षाभावेन प्रसरति च पश्चाननमतो
जहत्स्वार्था वृत्तिर्जयति यतिवर्यस्य जगति ॥ १४॥
सारसहृदयामोदं विदधानोऽन्तस्तमो विभिन्दानः ।
सत्पथविकासहेतुर्महोदयो जयतु हन्त यतिराजः ॥ १५॥
सारासारविचारचारुमनसा सौजन्यधन्यात्मना
कारुण्यामृतवर्षिहर्षिवचसा विद्यासमुद्योतिना ।
लोकानुग्रहतत्परोग्रतपसा शिष्याः सनाथाः सदा
जीयासुः सहचन्द्रशेखरपदश्रीभारतीयोगिना ॥ १६॥
श्रीमन्मठाधिपतिभावभरादरस्य
यत्सप्तविंशतिरगात्परिवत्सराणाम् ।
स्थाने तदेष सकुतूहलमाप्तशिष्य-
वर्गो महोत्सवमुपक्रमतेऽत्र कर्तुम् ॥ १७॥
आचार्यमादृतमुपास्स्व यथैव देव-
मित्येवमादिशति वागनपायिनी नः ।
इत्थं श्रुतेरभिमतं यदि वेद कोऽपि
सोऽयं महोत्सवमिमं न कथं करोतु ॥ १८॥
महोत्सवेऽस्मिन्महितैरनेकैरनन्यसाधारणभक्तिपूतैः ।
समर्पितं सद्रसवाङ्मयार्हपुष्पाञ्जलिं स्वीकुरुतां यतीन्द्रः ॥ १९॥
स्वाधीनकुशलसिद्धेरस्य कृते नास्ति किमपि संप्रार्थ्यम् ।
शिष्यानुशिष्टिहेतोः शरदः शतमेष जीवताद्योगी ॥ २०॥
महामहोपाध्यायेन वात्स्यश्रीकृष्णसूरिणा ।
पुष्पं पण्डितराजेन नव्यबाणेन नीयते ॥ २१॥
इति कृष्णमाचार्येण विरचितः आचार्यस्तवः सम्पूर्णः ।
(अभिनवभट्टबाण- पण्डितराज-महामहोपाध्याय-- इत्यादिबिरुदभाजा
रायपेट्टै कृष्णमाचार्येण विरचितः)
(Author Mahamahopadhyaya, Abhinavabhattabana,
Panditaraja, R. V. Krishnamachariar, Kumbakonam.)
A string of twentyone stanzas depicting the greatness of
Sringeri, the grandeur of the Advaita Philosophy enunciated by
Sri Sankarabhagavatpada, the achievements of his successors
in the Sarada Pitha, notably of Suresvara, Vidyaranya
and Sacchidananda Sivabhinava Nrisimha Bharati and of Sri
Chandrasekhara Bharati who is indeed like the lamp lit from
the parent lamp increasing and excelling in all its brightness
and radiance.
Proofread by Ravi Venkatraman